________________
सम्मतिताख्यपकरणस्य
विशेषल्लेन; यथा धूमोऽग्निमिति पराभ्युपगमः । यच्च संवादज्ञानात्साधनप्रामाण्यनिश्चये चक्रकदूषणमभ्यधायि । तदप्यसङ्गतम् । यदि हि प्रथममेव संवादज्ञानात्साधनस्य प्रामाण्यं निश्चित्य प्रवर्तेत तदा स्यात्तद् दूषणं, यदा . तु वह्निरूपदर्शने सत्येकदा शीतपीडितोऽन्यार्थ तद्देशमुपसर्पस्तत्स्पर्शमनुभवति, कृपालुना वा केनचित्तद्देशं वढेरानयने; तदाऽसौ वह्निरूपदर्शनस्पर्शनज्ञानयोः संबन्धमवगच्छति, एवंस्वरूपो भावः एवंभूतप्रयोजननिर्वर्त्तक इति । सोऽवमतसंबन्धोऽन्यदाऽनभ्यासदशायामनुमानात् ममायं रूपप्रतिभासोऽभिमतार्थक्रियासाधनः, एवंरूपप्रतिभासलात्, पूर्वोत्पन्नैवंरूपप्रतिभासवत् , इत्यस्मात्साधननिर्भासिज्ञानस्य प्रामाण्यं निश्चित्य प्रवर्त्तत इति, कुतश्चक्रकचोद्यावतारः । अभ्यासदशायामपि साधनज्ञानस्यानुमानात्प्रामाण्यं निश्चित्य प्रवर्त्तत इत्येके।नच तद्दशायामन्वयव्यतिरेकव्यापारस्यासंवेदनान्नानुमानव्यापार इत्यभिधातुं शक्यम्। अनुपलक्ष्यमाणस्यापि तद्व्यापारस्याभ्युपगमनीयत्वात् ; अकस्माद् धूमदर्शनात्परोक्षामिप्रतिपत्ताविव । अन्यथा गृहीतविस्मृतप्रतिबन्धस्यापि तदर्शनादकस्मात्तप्रतिपत्तिः स्यात् । नचाध्यक्षैव साधनस्य फलसाधनशक्तिरिति कथमध्यक्षेऽनुमानप्रवृत्तिरिति चोद्यम् । दृश्यमानप्रदेशपरोक्षाग्निसङ्गतेरिव तज्जननशक्तरप्रत्यक्षखेन, अनुमानप्रवृत्तिमन्तरेण निश्चेतुमशक्यत्वात् । तदुक्तम्
"तदृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः ।
स्मरणादभिलाषेण व्यवहारः प्रवर्त्तते” ॥ १॥ इति। अपरे तु मन्यन्ते । अभ्यासावस्थायामनुमानमन्तरेणापि प्रवृत्तिः सम्भवति । अथानुमाने सति प्रवृत्तिर्दृष्टा, तदभावे न दृष्टेत्यनुमानकार्या सा । नन्वेवंसत्यभ्यासदशायां विकल्पस्वरूपानुमानव्यतिरेकेणापि प्रत्यक्षा तत्प्रवृत्ति दृश्यते इति तदा तत्काय सा कस्मान्न भवति । तथाहि । प्रतिपादोद्धार न विकल्परूपानुमानब्यापारः संवेद्यते; अथ च प्रतिभासमाने वस्तुनि प्रवृत्तिः सम्पद्यत इति । अथादावनुमानात्प्रवृत्तिर्दृष्टेति तदन्तरेण सा पश्चात्कथं भवति । नन्वेवमादौ पर्यालोचनायवहारो दृष्टः, पश्चात्पर्यालोचनमन्तरेण