________________
तस्वबोधविधायिनी व्याख्या ।
कथं पुरःस्थितवस्तुदर्शनमात्राद्भवतीति वाच्यम् । यदि पुनरनुमानव्यतिरेकेण सर्वदा प्रवृत्तिर्न भवतीति प्रवर्तकमनुमानमेवेत्यभ्युपगमः । तथा सति प्रत्यक्षेण लिङ्गग्रहणाभावात्तत्राप्यनुमानमेव तन्निश्चयव्यवहारकारणम् ; तदप्यपरलिङ्गनिश्चयव्यतिरेकेण नोदयमासादयतीत्यनवस्थाप्रसङ्गतोऽनुमानस्यैवाप्रवृत्तेर्न कचित्प्रवृत्तिलक्षणो व्यवहार इत्यभ्यासावस्थायां प्रत्यक्षं स्वत एव व्यवहारकृत् अभ्युपेयम् । अनुमानं तु तादात्म्यतदुत्पत्तिप्रतिबन्धलिङ्गनिश्चयबलेन स्वसाध्यादुपजायमानत्वादेव तत्प्रापणशक्तियुक्तं संवादप्रत्ययोदयात्पागेव प्रमाणाभासविवेकेन निश्चीयतेऽतः स्वत एव । तथाहि । यद् यत उपजायते तत् तत्प्रापणशक्तियुक्तम् । तद्यथा प्रत्यक्षं स्वार्थस्य । अनुमेयादुत्पन्नं चेदं प्रतिबद्धलिङ्गदर्शनद्वारायातं लिङ्गिज्ञानमिति तत्प्रापणशक्तियुक्तं निश्चीयत इति मूढं प्रति विषयदर्शनेन विषयी व्यवहारोऽत्र साध्यते । सङ्केतविषयख्यापनेन समये प्रवर्त्तनात् । तथाहि । प्रत्यक्षेऽप्याव्यभिचारनिबन्धन एवानेन प्रामाण्यव्यवहारः प्रतिपन्नः । अव्यभिचारश्च नान्यस्तदुत्पत्तेः । सैव च ज्ञानस्य प्रापणशक्तिरुच्यते ॥
तदुक्तम्. “अर्थस्यासम्भवेऽभावात्प्रत्यक्षेऽपि प्रमाणता ।
प्रतिबद्धस्वभावस्य तहेतुले समं द्वयम्" ॥ १ ॥ इति । तस्मात् मूढं प्रति परतःप्रामाण्यव्यवहारः साध्यते । अनुमाने प्रामाण्यस्य प्रतिबद्धलिङ्गनिश्चयानन्तरं स्वसाध्याव्यभिचारलक्षणस्य ततः उत्पन्नत्वेन प्रत्यक्षसिद्धत्वात्, न परतः प्रामाण्यनिश्चये चक्रकचोद्यस्यावतारः । प्रत्यक्षे तु संवादाप्रागदुत्पत्तिरशक्यनिश्चयेति संवादापेक्षैवानभ्यासदशायां तस्य प्रामाण्याध्यकसितियुक्ता। अत उत्पत्तौ, स्वकार्ये, ज्ञप्तौ च सापेक्षत्वस्य प्रतिपादितत्वाद् थे यद्भावं प्रत्यनपेक्षाः' इति प्रयोगे हेतोरसिद्धिः। यतश्च सन्देहविपर्ययविषयप्रत्ययप्रामाण्यस्य परतो निश्चयो व्यवस्थितोऽतो ये सन्देहविपर्ययाध्यासिततनवः' इति प्रयोगे न व्याप्त्यसिद्धिः । यदप्युक्तम् । सर्वप्राणभृतां प्रामाण्यं प्रति सन्देहविपर्ययाभावादसिद्धो हेतुरित्यादि। तदप्यसत् । यतः प्रेक्षापूर्वकारिणः प्रमाणाप्रमाणचिन्तायामधिक्रियन्ते