________________
सम्मतिताख्यप्रकरणस्य
नेतरे । ते च कासाञ्चित् ज्ञानव्यक्तीनां विसंवाददर्शनाज्जाताशङ्का न ज्ञानमात्रात् एवमेवायमर्थ इति निश्चिन्वन्ति; नापि तज्ज्ञानस्य प्रामाण्यमध्यवस्यन्ति । अन्यथैषां प्रेक्षावत्तैव हीयेत इति सन्देहविषये कथं न सन्देहः । तथा कामलादिदोषप्रभवे ज्ञाने विपर्ययरूपताऽप्यस्तीति तबलाद्विपर्ययकल्पनाऽन्यज्ञानेऽपि सङ्गतैवेति प्रकृते प्रयोगे नासिद्धो हेतुरिति भवत्यतो हेतोः परतः प्रामाण्यसिद्धिः । यदपि, प्रमाणतदाभासयोस्तुल्यं रूपम् इत्याद्याशङ्कय अप्रमाणे अवश्यंभावी बाधकप्रत्ययः, कारणदोषज्ञानंच इत्यादिना परिहृतम् । तदपि न चारु। यतो बाधककारणदोषज्ञानं मिथ्याप्रत्यये अवश्यंभावि, सम्यक्प्रत्यये तदभावो विशेषः प्रदर्शितः। स तु किं बाधकाग्रहणे, तदभावनिश्चये वा। पूर्वस्मिन् पक्षे, भ्रान्तदृशस्तद्भावेऽपि तदग्रहणं दृष्टं कञ्चित्कालम् , एवमत्रापि तदग्रहणं स्यात् । तत्रैतत्स्या भ्रान्तदृशः किञ्चित्कालं तदग्रहेऽपि कालान्तरे बाधकग्रहणम्।सम्यग्दृष्टौ तु कालान्तरेऽपि तदग्रहः। नन्वेतत्सर्वविदां विषयो नार्वाग्दृशां व्यवहारिणामस्मादृशाम् । बाधकाभावनिश्चयोऽपि सम्यग्ज्ञाने किं प्रवृत्तेः प्राक् भवति, उत प्रवृत्त्युत्तरकालम् । यदि पूर्वः पक्षः। स न युक्तः। भ्रान्तज्ञानेऽपि तस्य सम्भवात्प्रमाणत्वपसक्तिः स्यात् । अथ प्रवृत्त्युत्तरकालं बाधकामावनिश्चयः । सोऽपि न युक्तः । बाधकामावनिश्चयमन्तरेणैव प्रवृ. त्तरुत्पन्नवेन तन्निश्चयस्याकिश्चित्करत्वात् । न च बाधकामावनिश्चये प्रवृत्युत्तरकालभाविनि किश्चिन्निमित्तमस्ति । अनुपलब्धिनिमित्तमिति चेन्न । तस्या असम्भवात् । तथाहि । बाधकानुपलब्धिः किं प्रवृत्तेः प्राग्भाविनी बाधकाभावनिश्चयस्य प्रवृत्त्युरकालभाविनो निमित्तम्, अथ प्रवृत्त्युत्तरकालभाविनीति विकल्पद्वयम् । तत्र यदि पूर्वः पक्षः। स न युक्तः। पूर्वकालाया बाधकानुपलब्धेः प्रवृत्त्युत्तरकालभावनिश्चयनिमित्तत्वासम्भवात् नान्यकालानुपलब्धिरन्यकालमभावनिश्चयं विदधाति। अतिप्रसङ्गात् । नापि प्रवृत्त्युत्तरकालभाविनी बाधकानुपलब्धिस्तन्निश्चयनिमित्तम्।प्राक् प्रवृत्तेरुत्तरकालं बाधकोपलब्धिर्न भविष्यतीत्यर्वाग्दर्शिना निश्चेतुमशक्यत्वेन,तस्या असिद्धत्वात् । नापि प्रवृत्त्युत्तरकालभाविन्यनुपलब्धिस्तदैव निश्चीयमाना तत्कालभाविबाधकामावनिश्चयस्य निमित्तं भविष्यतीति वक्तुं शक्यम् । तत्कालभाविनो निश्चयस्याकिश्चित्करत्वप्रतिपाद