________________
तत्त्वबोधविधायिनी व्याख्या । नात्। किंच। बाधकानुपलब्धिःसर्वसम्बन्धिनी किं तन्निश्चयहेतुः, उताऽऽत्मसम्बन्धिनीति पुनरपि पक्षद्वयम् । यदि सर्वसम्बन्धिनीति पक्षः। स न युक्तः । तस्या असिद्धत्वात्।नहि सर्वे प्रमातारो बाधकं नोपलभन्त इति अर्वाग्दर्शिना निश्चेतुं शक्यम्।अथात्मसम्बन्धिनीत्यभ्युपगमः। सोऽप्ययुक्तः । आत्मसंबन्धिन्या अनुपलब्धेः परचेतोवृत्तिविशेषैरनैकान्तिकत्वात् ; तन्न बाधाभावनिश्चयेऽनुपलब्धिनिमित्तम् ;नापि संवादो निमित्तम्। भवदभ्युपगमेनानवस्थाप्रसङ्गस्य प्रतिपादितत्वात्।न च बाधाभावो विशेषः सम्यक्प्रत्ययस्य सम्भवतीति प्रागेव प्रतिपादितम् । कारणदोषाभावेऽप्ययमेव न्यायो वक्तव्य इति नासावपि तस्य विशेषः ॥ किंच । कारणदोषबाधकाभावयोर्भवदभ्युपगमेन कारणगुणसंवादकप्रत्ययरूपत्वस्य प्रतिपादनात् तन्निश्चये तस्य विशेषेऽभ्युपगम्यमाने परतः प्रामाण्यनिश्चयोऽभ्युपगत एव स्यात्। नच सोऽपि युक्तः। अनवस्थादोषस्य भवदभिप्रायेण प्राक् प्रतिपादितत्वात् । यदप्युक्तम् । एवं त्रिचतुरज्ञान' इत्यादि । तत्रैकस्य ज्ञानस्य प्रामाण्यं, पुनरप्रामाण्यं, पुनः प्रामाण्यम्, इत्यवस्थात्रयदर्शनाद्बाधके, तद्बाधकादौ वाऽवस्थात्रयमाशङ्कमानस्य कथं परीक्षकस्य नापराऽपेक्षा; येनानवस्था न स्यात्। यदप्युक्तम् । अपेक्षातः' इत्यादि । तदप्यसङ्गतम् । यतो नायं छलव्यवहारः प्रस्तुतः; येन कतिपयप्रत्ययमानं निरूप्यते । नहि प्रमाणमन्तरेण बाधकाशङ्कानिवृत्तिः। नचाशङ्काव्यावर्तकं प्रमाणं भवदभिप्रायेण सम्भवतीत्युक्तम् । तथा कारणदोषज्ञानेऽपि पूर्वेण जाताशङ्कस्य कारणदोषज्ञानान्तरापेक्षायां कथमनवस्थानिवृत्तिः ॥
कारणदोषज्ञानस्य तत्कारणदोषग्राहकज्ञानाभावमात्रतः प्रमाणत्वात् नात्रानवस्था; यदाह
“यदा स्वतः प्रमाणत्वं तदाऽन्यन्नैव मृग्यते ।
निवर्तते हि मिथ्यात्वं दोषाज्ञानादयत्नतः” ॥ १॥ इति । एतच्चानुढोष्यम् । प्रागेव विहितोत्तरत्वात् ॥
नच दोषाज्ञानाद्दोषाभावः। सत्स्वपि दोषेषु तदज्ञानस्य सम्भवात् । सम्यग्ज्ञानोत्पादनशक्तिवैपरीत्येन मिथ्याप्रत्ययोत्पादनयोग्यं हि रूपं तिमिरादिनिमिचमिन्द्रियदोषः। स चातीन्द्रियत्वात्सन्नपि नोपलक्ष्यते।नच दोषा ज्ञानेन व्याप्ताः,