________________
सम्मतिताख्यप्रकरणस्ययेन तन्निवृत्त्या निवर्तेरन् । दोषाभावज्ञाने तु संवादाद्यपेक्षायां सैवानवस्था प्राक् प्रतिपादिता । तेनैतदपि निराकृतम्, यदुक्तं भट्टेन
"तस्मात् स्वतः प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम् । बाधकारणदुष्टत्वज्ञानाभ्यां तदपोद्यते ॥१॥ पराधीनेऽपि चैतस्मिन्नानवस्था प्रसज्यते । प्रमाणाधीनमेतद्धि खतस्तच्च प्रतिष्ठितम् ॥ २॥ प्रमाणं हि प्रमाणेन यथा नान्येन साध्यते ।
न सिध्यत्यप्रमाणत्वमप्रमाणात्तथैव हि"॥ ३ ॥ इति स्यान्मतम् । यदपि, अन्यानपेक्षप्रमितिभावो बाधकप्रत्ययः, तथाऽप्यबाधकतया प्रतीत एवान्यस्याप्रमाणतामाधातुं क्षमो नान्यथेति । सोऽयमदोषः ।
यतः
"बाधकप्रत्ययस्तावदर्थान्यत्वावधारणम् । सोऽनपेक्षप्रमाणत्वात्पूर्वज्ञानमपोहते ॥ १ ॥ तत्रापि त्वपवादस्य स्यादपेक्षा कचित्पुनः। जाताशङ्कस्य पूर्वेण साऽप्यन्येन निवर्तते ॥ २ ॥ बाधकान्तरमुत्पन्नं यद्यस्यान्विच्छतोऽपरम् । ततो मध्यमबाधेन पूर्वस्यैव प्रमाणता ॥ ३ ॥ अथान्यदप्रयत्नेन सम्यगन्वेषणेऽकृते । मूलाभावान्न विज्ञानं भवेद्बाधकबाधनम् ॥ ४ ॥ ततो निरपवादत्वात्तेनैवाद्यं बलीयसा । बाध्यते तेन तस्यैव प्रमाणत्वमपोद्यते ॥५॥ एवं परीक्षकज्ञानत्रितयं नातिवर्तते ।
ततश्चाजातबाधेन नाशङ्कयं बाधकं पुनः"॥ ६ ॥ इति । तथाहि । एतेन सर्वेणापि ग्रन्थेन स्वतःप्रामाण्यव्याहतिः परिहता, परीक्षक