________________
२४
सम्मतिताख्यप्रकरणस्ययाज्ञानस्य संभव इत्यागोपालाङ्गनाप्रसिद्धमेतत् । न च स्वप्नार्थक्रियाज्ञानमर्थक्रियाऽभावेऽपि दृष्टमिति जाग्रदर्थक्रियाज्ञानमपि तथाऽऽशङ्काविषयः। तस्य तद्विपरीतत्वात् । तथाहि । स्वप्नार्थक्रियाज्ञानम् , अप्रवृत्तिपूर्व व्याकुलमस्थिरं च; तद्विपरीतं तज्जाग्रदशाभावि, कुतस्तेन व्यभिचारः। यदि चार्थक्रियाज्ञानमप्यर्थमन्तरेण जाग्रदशायां भवेत् , कतरदन्यज्ञानमर्थाव्यभिचारि स्याद्, यद्दलेनार्थव्यवस्था क्रियेत । परतः प्रामाण्यवादिनो बौद्धस्य प्रतिकूलमाचरामीत्यभिप्रायवता तस्यानुकूलमेवाचरितम् । स हि निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् स्वपप्रत्ययवदित्यभ्युपगच्छत्येव । भवता तु जाग्रद्दशास्वप्नदशयोरभेदं प्रतिपादयता तत्साहाय्यमेवाचरितम् | नहि तद्व्यतिरिक्तः प्रत्ययोऽस्ति यस्यार्थसंसर्गः; न चावस्थाद्वयतुल्यताप्रतिपादनं त्वया क्रियमाणं प्रकृतोपयोगि । तथाहि । सांव्यवहारिकस्य प्रमाणस्य लक्षणमिदमभिधीयते 'प्रमाणमविसंवादिज्ञानम्' इति । तच्च सांव्यवहारिक जाग्रदशाज्ञानमेव । तत्रैव सर्वव्यवहाराणां लोके परमार्थतः सिद्धत्वात् । स्वप्नप्रत्ययानां तु निर्विषयतया, लोके प्रसिद्धानां प्रमाणतया, व्यवहाराभावात् किं स्वतः प्रामाण्यमुत परत इति चिन्तायाः अनवसरत्वात् । तच्च जाग्रज्ज्ञाने द्वितीयदर्शनात्किं प्रमाणं, किं वाऽप्रमाणम् ; तथा किं स्वतः प्रमाणं, किं वा परतः इति चिन्तायाः। पूर्वोक्तलक्षणे जाग्रत्प्रत्ययत्वे सतीति विशेषणाभिधाने स्वप्नप्रत्ययेन व्यभिचारचोदनं प्रस्तावानभिज्ञतां परस्य सूचयति । अपि च । अर्थक्रियाऽधिगतिलक्षणफलविशेषहेतुर्ज्ञानं प्रमाणमिति लक्षणे, तत्फलं नैवं प्रमाणलक्षणानुगतमिति कथं तस्यापि प्रामाण्यमवसीयत इति चोद्यानुपपत्तिः । यथा ऽङ्करहेतु/जमिति बीजलक्षणे नाङ्कुरस्यापि बीजरूपताप्रसक्तिस्ततो न विदुषामेवं प्रश्नः, कथमङ्कुरे बीजरूपता निश्चीयत इति । यथाचाङ्कुरदर्शनाद्वीजस्य बीजरूपता निश्चीयते, तत्राप्यर्थक्रियाफलदर्शनात्साधनज्ञानस्य प्रामाण्यनिश्चयः । न चार्थक्रियाज्ञानस्याप्यन्यतः प्रामाण्यनिश्चयादनवस्था। अर्थक्रियाज्ञानस्य तद्रूपतया स्वत एव सिद्धत्वात् । तदुक्तम् । “स्वरूपस्य स्वतो गतिः” इति । न च स्वरूपज्ञानस्य भ्रान्तयः संभवन्ति । स्वरूपाभावे स्वसंवित्तेरप्यभेदेनाभावप्रसंगात् । व्यतिरिक्तविषयमेव हि प्रमाणमधिकृत्योक्तम् । 'प्रमाणमविसंवादिज्ञान