________________
तत्त्वबोधविधायिनी व्याख्या ।
दर्शनमन्तरेण गुणानुवृत्तेनिश्चेतुमशक्यत्वात् । नच क्षणक्षयिषु भावेषु गुणानुवृत्तिरेकरूपैव सम्भवति । अपरापरसहकारिभेदेन भिन्नरूपत्वात् । संवादप्रत्ययाचार्थक्रियाज्ञानलक्षणात् प्रामाण्यनिश्चयोऽभ्युपगम्यत एव । 'प्रमाणमविसंवादिज्ञानम्' इति प्रमाणलक्षणाभिधानात् । न च संवादित्वलक्षणं प्रामाण्यं स्वत एव ज्ञायते इति शक्यमभिधातुम् । यतः संवादिलं संवादप्रत्ययजननशक्तिः प्रमाणस्य न च कार्यदर्शनमन्तरेण कारणशक्तिनिश्चेतुं शक्या। यदाह । 'नह्यप्रत्यक्षे कार्ये कारणभावगतिः' इति । तस्मादुत्तरसंवादप्रत्ययात्पूर्वस्य प्रामाण्यं व्यवस्थाप्यते । नच संवादप्रत्ययात् पूर्वस्य प्रामाण्यावगमे संवादप्रत्ययस्याप्यपरसंवादात् प्रामाण्यावगम इत्यनवस्थाप्रसङ्गात् प्रामाण्यावगमाभाव इति वक्तुं युक्तम् । संवादप्रत्ययस्य संवादरूपवेनापरसंवादापेक्षाभावतोऽनवस्थाऽनवतारात्। न च प्रथमस्यापि संवादापेक्षा मा भूदिति वक्तव्यम् । यतस्तस्य संवादजनकत्वमेव प्रामाण्यम्; तदभावे तस्य तदेव न स्यात् । अर्थक्रियाज्ञानं तु साक्षादविसंवादि । अक्रियालम्बनत्वात् । तस्य स्वविषये संवेदनमेव प्रामाण्यम् । तच्च स्वतः सिद्धमिति नान्यापेक्षा । तेन 'कस्यचित्तु यदीष्येत' इत्यादि परस्य प्रलापमात्रम् । नचार्थक्रियाज्ञानस्याप्यवस्तुवृत्तिशङ्कायामन्यप्रमाणापेक्षयाऽनवस्थाऽवतारः इति वक्तव्यम् । अर्थक्रियाज्ञानस्यार्थक्रियानुभवस्वभावत्वेनार्थक्रियामात्रार्थिनां भिन्नार्थक्रियात एतज्ज्ञानमुत्पन्नम्, उत तद्व्यतिरेकेणेत्येवंभूतायाश्विन्ताया निष्प्रयोजनलात् । तथाहि । यथाऽर्थक्रिया किमवयवव्यतिरिक्तेनावयविनाऽर्थेन निष्पादिता, उताव्यातरिक्तेन, आहोस्विदुभयरूपेण, अथानुभयरूपेण, किंवा त्रिगुणात्मकेन, परमाणुसमूहात्मकेन वा, अथ ज्ञानरूपेण, आहोस्वित्संवृत्तिरूपेणेत्यादिचिन्ताऽर्थक्रियामात्रार्थिनां निष्पयोजना, निष्पन्नवाहाञ्छितफलस्य; तथेयमपि किं वस्तुसत्यामर्थक्रियायां तत्संवेदनज्ञानमुपजायते, आहोस्विवस्तुसत्यामिति । तृड्दाहविच्छेदादिकं हि फलमभिवाञ्छितम् । तच्चाभिनिप्पन्नं तद्वियोगज्ञानस्य स्वसंविदितस्योदये इति तच्चिन्ताया निष्फलत्वम् ; अवस्तुनि ज्ञानद्वयासंभवाच्च । यत्र हि साधनज्ञानपूर्वकमर्थक्रियाज्ञानमुत्पद्यते तत्रावस्तुशंका नैवास्ति । नह्यनग्नावग्निज्ञाने संजाते प्रवृत्तस्य दाहपाकाद्यर्थक्रि