________________
२२
सम्मतिताख्यप्रकरणस्यपारजनितेन प्रत्यक्षेण निश्चीयते । नापि मनोव्यापारजेन प्रत्यक्षेण । एवंविधस्यानुभवस्याभावात् । नापि तयोरुत्पादकस्य ज्ञातृव्यापाराख्यस्य यथार्थत्वनिश्वायकलं प्रामाण्यं बाह्येन्द्रियजन्येन मनोजन्येन वा प्रत्यक्षेण निश्चीयते । तेन सहेन्द्रियाणां सम्बन्धाभावात् । न चेन्द्रियासम्बद्धे विषये ज्ञानमुपजायमानं प्रत्यक्षव्यपदेशमासादयतीत्युक्तम् । नाप्यनुमानतः प्रामाण्यनिश्चयः । पूर्वोक्तस्य फलद्वयस्य यथावस्थितार्थत्वलक्षणप्रामाण्यनिश्चये लिङ्गाभावात्। ज्ञातृव्यापारस्य तु पूर्वोक्तफलद्वयस्वभावखकार्यलिङ्गसम्भवेऽपि न यथार्थनिश्चायकत्वलक्षणप्रामाण्यनिश्वायकत्वम्। यतस्तल्लिङ्गं संवेदनाख्यं, यथार्थत्वविशिष्टं तन्निश्चये व्याप्रियेत, निर्विशेषणं वा । प्रथमपक्षे तस्य यथार्थत्वविशेषणग्रहणे प्रमाणं वक्तव्यम्। तच्च न सम्भ. वतीति प्रतिपादितम् । निर्विशेषणस्य फलस्य प्रामाण्यप्रतिपादकले, मिथ्याज्ञाने फलमपि प्रामाण्यनिश्चायकं स्यादित्यतिप्रसङ्गः । तत्रैतत्स्यात् पूर्वोक्तं फलद्वयमर्थसंवेदनार्थप्रकटतालक्षणम् ; अनुभवान्निश्चीयते यथा तस्य स्वतः पूर्वोक्तखरूपनि. श्वयः, तथा यथार्थत्वस्यापि । यथा हि तत्संवेद्यमानं नीलं संवेदनतया संवेद्यते, तथा यथार्थवविशिष्टस्यैव तस्य संवित्तिः। नहि नीलसंवेदनादन्या यथार्थत्वसंवित्तिः। यद्येवम् , शुक्तिकायां रजतज्ञानेऽपि अर्थसंवेदनस्वभावत्वाद्यथार्थत्वप्रसक्तिः। स्मृतिप्रमोषादयस्तु निषेत्स्यन्ते इति नानुमानादपि तत्प्रामाण्यनिश्चयः । किंच। प्रत्यक्षानुमानयोः प्रामाण्यनिश्चयनिमित्तत्वेऽभ्युपगम्यमाने, स्वतः प्रामाण्यनिश्चयव्याहतिप्रसङ्गः; तत्रान्यनिमित्तोऽपि प्रामाण्यनिश्चयः। यदुक्तम् ; 'नापि प्रामाण्यं खनिश्चयेऽन्यापेक्षं, तद्यपेक्षमाणं किं कारणगुणानपेक्षते' इत्यादि । तदनभ्युपगमोपालम्भमात्रम्। नह्यस्मदभ्युपगमः, यदुत स्वकारणगुणज्ञानात् प्रामाण्यं विज्ञायते। कारणगुणानां संवादप्रत्ययमन्तरेण ज्ञातुमशक्यत्वात् । संवादप्रत्ययात्तु कारणगुणपरिज्ञानाभ्युपगमे, तत एव प्रामाण्यनिश्चयस्यापि सिद्धत्वात् व्यर्थ गुणनिश्चयपरिकल्पनम् । प्रामाण्यनिश्चयोत्तरकालं गुणज्ञानस्य भावात्तन्निश्चयस्य प्रामाण्यनिश्चयेऽनुपयोगाच्च। नाप्येकदा संवादाद् गुणान् निश्चित्य, अन्यदा संवादमन्तरेणापि गुणनिश्चयादेव तत्प्रभवस्य ज्ञानस्य प्रामाण्यनिश्चय इति वक्तुं शक्यम् । अत्यन्तपरोक्षेषु चक्षुरादिषु कालान्तरेऽपि निश्चितप्रामाण्यस्वकार्य