________________
तत्त्वबोधविधायिाने व्याख्या । स्वार्थनिश्चायकत्वासंभवात् । अन्यथाऽप्रमाणस्यापि स्वार्थनिश्चायकत्वं स्यात्। तनादुष्टकारणारब्धत्वमपि विशेषो भवन्नीत्या संभवति ॥ अथ संवादित्वं विशेषः । सोऽभ्युपगम्यत एव । किंतु संवादप्रत्ययोत्पत्तिनिश्चयमन्तरेण स न ज्ञातुं शक्यत इति प्रतिपादयिष्यमाणत्वात् , तदपेक्षं प्रमाणं स्वकार्ये प्रवर्तत इति तत्तत्र परतः स्यात् । अत एव निरपेक्षत्वस्यासिद्धत्वात्पूर्वोक्तन्यायेन ये प्रतीक्षितप्रत्ययान्तरो. दयाः' इति प्रयोगे नासिद्धो हेतुः ।।
एतेनैव यदुक्तम्"तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् ।
अदुष्टकारणारब्धं प्रमाणं लोकसंमतम्" ॥१॥ इति; तदपि निरस्तम् ॥ . यच्चोक्तम् । यदि संवादापेक्षं प्रमाणं स्वकार्ये प्रवर्त्तते तदा चक्रकप्रसङ्गः। तदसङ्गतम् । यथावस्थितपरिच्छेदस्वभावमेतत्प्रमाणमित्येवंनिश्चयलक्षणे स्वकार्ये यथा संवादापेक्षं प्रमाणं प्रवर्त्तते, नच चक्रकदोषः, तथा प्रतिपादयिष्यमाणत्वात् । यदपि 'अथ गृहीताः कारणगुणाः' इत्याद्यभिधानम् । तदपि परसमयानभिज्ञतां भवतः ख्यापयति । कारणगुणग्रहणापेक्षं प्रमाणं स्वकार्ये प्रवर्त्तते इति परस्यानभ्युपगमात् । यच्चोक्तम् । 'उपजायमानं प्रमाणमर्थपरिच्छेदशक्तियुक्तम्, इति । तत्राविसंवादित्वमेव अर्थतथावपरिच्छेदशक्तिः, तच्च परतो ज्ञायते, तदपेक्षं प्रमाणं स्वकार्ये प्रवर्त्तते इति तत्तत्र परतः स्थितम् । 'नापि प्रामाण्यं स्वनिश्चयेऽन्यापेक्षम्' इत्युक्तं यत्। तदप्यसत् । यतो निश्चयस्तत्र भवन् किं निर्निमित्तः, उत सनिमित्त इति कल्पनाइयम् । तत्र न तावन्निनिमित्तः । प्रतिनियतदेशकालस्वभावाभावप्रसङ्गात् ॥ सनिमित्तत्वेऽपि किं खनिमित्तः, उत स्वव्यतिरिक्तनिमित्तः । न तावत् स्वनिमित्तः । स्वसंविदितप्रमाणानभ्युपगमात् मीमांसकस्य । अथ स्वव्यतिरिक्तनिमित्तः। तत्रापि वक्तव्यम् । तन्निमित्तं किं प्रत्यक्षम्, उतानुमानम् ।अन्यस्य तन्निश्वायकस्यासम्भवात् । तत्र यदि प्रत्यक्षम् । तदयुक्तम् । प्रत्यक्षस्य तत्र व्यापारायोगात् । तद्धीन्द्रियसंयुक्त विषये तद्व्यापारादुदयमासादयत्प्रत्यक्षव्यपदेशं लभते । न चेन्द्रियाणामर्थापरोक्षतालक्षणेन फलेन तत्संवेदनस्वरूपेण वा सम्प्रयोगः; येन तयोर्यथार्थत्वस्वभावं प्रामाण्यमिन्द्रियव्या