________________
सम्मतितकाख्यप्रकरणस्य
अथोत्तरकालं बाध्यत इति पक्षः। सोऽपि न युक्तः । उत्तरकालं तस्य स्वतएव नाशाभ्युपगमात् , न तंत्र बाधकव्यापारः सफलो दैवरक्ता हि किंशुकाः ॥ अथ प्रमेयं बाध्यते इत्यभ्युपगमः । सोऽप्ययुक्तः। यतः प्रमेयं बाध्यमानं किं प्रतिभासमानेन रूपेण बाध्यते, उताप्रतिभासमानरूपसहचारिणा स्पर्शादिलक्षणेनेति विकल्पनाद्वयम् । तत्र यदि प्रतिभासमानेन रूपेण बाध्यते इति मतम् । तद्युक्तम् । प्रतिभासमानस्य रूपस्यासत्त्वासंभवात् । अन्यथा सम्यग्ज्ञानावभासिनोऽप्यसत्त्वप्रसंगः। अथाप्रतिभासमानेन रूपेण बाध्यत इति मतम् । तदप्ययुक्तम् । अप्रतिभासमानस्य रूपस्य प्रतिभासमानरूपादन्यत्वात् । नचान्यस्याभावेऽन्यस्याभावः । अतिप्रसंगात् ॥ अथार्थक्रिया बाध्यते । ननु साऽपि किमुत्पन्ना बाध्यते, उतानुत्पन्ना । यद्युत्पन्ना; न तर्हि बाध्यते । तस्याः सत्त्वात् । अथानुत्पन्ना। साऽपि न बाध्या। अनुत्पन्नत्वादेव । किंच। अर्थक्रियाऽपि पदार्थादन्या। ततश्च तस्या अभावे कथमन्यस्यासत्त्वम् । अतिप्रसंगादेव। व्यवच्छेद्यासंभवे च बाधावर्जितमिति विशेषणस्याप्ययुक्तत्वात ; न बाधाविरहोऽपि विज्ञानस्य विशेषः ॥ अथादुष्टकारणारब्धत्वं विशेषः । सोऽपि न युक्तः । यतस्तस्याप्यज्ञातस्य विशेषत्वमसिद्धम् । ज्ञातत्वे वा कुतोऽदुष्टकारणारब्धत्वं ज्ञायते । अन्यस्माददुष्टकारणारब्धाद्विज्ञाना. दिति चेत्; अनवस्था । संवादादिति चेत् । ननु संवादप्रत्ययस्याप्यदुष्टकारणारब्धत्वं विशेषोऽन्यस्माददुष्टकारणारब्धात्संवादप्रत्ययाद्विज्ञायत इति सैवानवस्था भवतः संपद्यत इति । किंच । ज्ञानसव्यपेक्षमदुष्टकारणारब्धत्वविशेषमपेक्ष्य स्व. कार्ये ज्ञानं प्रवर्त्तमानं कथं न तत्तत्र परतः प्रवृत्तं भवति । सथा कारणदोषाभावः पर्युदासवृत्त्या भवदभिप्रायेण गुणः । ततश्चादुष्टकारणारब्धमिति वदता गुणवत्कारणारब्धमित्युक्तं भवति । कारणगुणाश्च प्रमाणेन स्वकार्ये प्रवर्तमानेनापेक्ष्यमाणनिश्चायकप्रमाणापेक्षा अपेक्ष्यन्ते, तदपि प्रमाणं स्वकारणगुणनिश्चायकं स्वकारणगुणनिश्चयापेक्षं स्वकार्ये प्रवर्तत इत्यनवस्थादूषणं “जातेऽपि यदि विज्ञाने तावन्नार्थोऽवधार्यते” इत्यादिना ग्रन्थेन परपक्षे आसञ्ज्यमानं स्ववधाय कृत्योत्थापनं भवतः प्रसक्तम् । अथादुष्टकारणजनितत्वनिश्चयमन्तरेणापि ज्ञानं वार्थनिश्चये स्वकार्ये प्रवर्तिष्यते । तदसत् । संशयादिविषयीकृतस्य प्रमाणस्य