________________
तत्त्वबोधविधायिनी व्याख्या ।
विशेषः, उत्तरकालभावी वा । न तावत्तत्कालभावी । मिथ्याज्ञानेऽपि तत्कालभाविनो बाधाविरहस्य भावात् । अथोत्तरकालभावीं । तत्रापि वक्तव्यम् । किं ज्ञातः स विशेषः, उताज्ञातः । तत्र नाज्ञातः । अज्ञातस्य सत्त्वेनाप्यसिद्धत्वात् । अथ ज्ञातोऽसौ विशेषः । तत्रापि वक्तव्यम् । उत्तरकालभावी बाधाविरहः किं पूर्वज्ञानेन ज्ञायते; आहोस्विदुत्तरकालभाविना । तत्र न तावत्पूर्वज्ञानेनोत्तरकालभावी बाधाविरहो ज्ञातुं शक्यः । तद्धि स्वसमानकालं संनिहितं नीलादिकमवभासयतु, न पुनरुत्तरकालमप्यत्र बाधकप्रत्ययो न प्रवर्त्तिष्यत इत्यवगमयितुं शक्नोति । पूर्वमनुत्पन्नबाधकानामप्युत्तरकालबाध्यत्वदर्शनात् । अथोत्तरज्ञानेन ज्ञायते । ज्ञायताम्, किंतूत्तरकालभावी बाधाविरहः कथं पूर्वज्ञानस्य विनष्टस्य विशेषः । भिन्नकालस्य विनष्टं प्रति विशेषत्वायोगात् । किंच । ज्ञायमानत्वेऽपि केशोण्डु. कादेरसत्यत्वदर्शनाद्, बाधाभावस्य ज्ञायमानत्वेऽपि कथं सत्यत्वम् । तज्ज्ञानस्य सत्यत्वादिति चेत्, तस्य कुतः सत्यत्वम् । तत्प्रमेयसत्यत्वात्, इतरेतराश्रयदोषप्रसंगात्। अपरबाधाभावज्ञानादिति चेत्, तत्राप्यपरबाधाभावज्ञानादित्यनवस्था । अथ संवादादुत्तरकालभावी बाधाविरहः सत्यत्वेन ज्ञायते । तर्हि संवादस्याप्यपरसंवादज्ञानात्सत्यत्वसिद्धिः, तस्याप्यपरसंवादज्ञानादित्यनवस्था । किंच । यदि 1 संवादप्रत्ययादुत्तरकालभावी बाधाभावो ज्ञायमानो विशेषः पूर्वज्ञानस्याभ्युपगम्यते । तर्हि ज्ञायमानस्वविशेषापेक्षं प्रमाणं स्वकार्ये यथावस्थितार्थपरिच्छेदलक्षणे प्रवर्त्तत इति कथमनपेक्षत्वात्तत्र स्वतः प्रामाण्यम् । अपि च । बाधाविरहस्य भवदभ्युपगमेन पर्युदासवृत्त्या संवादरूपत्वम् । बाधावर्जितं च ज्ञानं स्वकार्ये अन्यानपेक्षं प्रवर्त्तत इति ब्रुवता संवादापेक्षं तत्तत्र प्रवर्त्तत इत्युक्तं भवति । किंच । किं विज्ञानस्य स्वरूपं बाध्यते, आहोस्वित्प्रमेयं, उतार्थक्रियेति विकल्पत्रयम् । तत्र यदि विज्ञानस्य स्वरूपं बाध्यत इति पक्षः । स न युक्तः । विकल्पहयानतिवृत्तेः । तथाहि । विज्ञानं बाध्यमानं किं स्वसत्ताकाले बाध्यते, उत उत्तरकालम् । तत्र यदि स्वसत्ताकाले बाध्यत इति पक्षः । स न युक्तः । तदा विज्ञानस्य परिस्फुटरूपेण प्रतिभासनात् । नच विज्ञानस्य परिस्फुटप्रतिभासिनोऽभावस्तदैवेति वक्तुं शक्यम् । सत्याभिमतविज्ञानस्याप्यभावप्रसंगात् ।
१९