________________
सम्मतिताख्यप्रकरणस्यइत्यादि वक्तव्यम्। विहितोत्तरत्वात्। अपि च। अपौरुषेयत्वेऽपि प्रेरणाया न स्वतः स्वविषयप्रतीतिजनकव्यापारः। सदा सन्निहितत्वेन ततोऽनवरतप्रतीतिप्रसङ्गात् । किंतु पुरुषाभिव्यक्तार्थप्रतिपादकसमयाविभूतविशिष्टसंस्कारसव्यपेक्षायाः । ते च पुरुषाः सर्वे रागादिदोषाभिभूता एव भवताऽभ्युपगताः। तत्कृतश्च संस्कारो न यथार्थः । अन्यथा पौरुषेयमपि वचो यथार्थ स्यात् । अतोऽपौरुषेयत्वाभ्युपगमेऽपि समयकर्तपुरुषदोषकृताप्रामाण्यसद्भावात् प्रेरणायामपौरुषेयत्वाभ्युपगमो गजस्लानमनुकरोति।
तदुक्तम्___“असंस्कार्यतया पुम्भिः सर्वथा स्यान्निरर्थता ।
___ संस्कारोपगमे व्यक्तं गजनानमिदं भवेत्” ॥१॥ यदप्यभाषि । 'तथाऽनुमानबुद्धिरपि गृहीताविनाभावानन्यापेक्षा' इत्यादि । तदप्यचारु। अविनाभावनिश्चयस्यैव गुणत्वात् ; तदनिश्चयस्य, विपरीतनिश्चयस्य च दोषत्वात् । तदेवमुत्पत्तौ प्रामाण्यं गुणापेक्षत्वात्परत इति स्थितम् ॥ यदप्युक्तम् । 'नापि स्वकार्ये प्रवर्तमानं प्रमाणं निमित्तान्तरापेक्षम्' इति । तदप्यसंगतम् । यतो यदि कार्योत्पादनसामग्रीव्यतिरिक्तनिमित्तानपेक्षं प्रमाणमित्युच्यते । तदा सिद्धसाधनम् । अथ सामग्येकदेशलक्षणं प्रमाणं निमित्तान्तरानपेक्षम् । तदप्यचारु । एकस्य जनकत्वासंभवात्। 'नह्येकं किंचिजनकं सामग्री वै जनिका' इति न्यायस्यान्यत्र व्यवस्थापितत्वात् । किंच । नार्थपरिच्छेदमानं प्रमाणकार्यम् । अप्रमाणेऽपि तस्य भावात् । किं तर्हि । अर्थतथात्वपरिच्छेदः । स च ज्ञानस्वरूपकार्यः । भ्रान्तज्ञानेऽपि स्वरूपस्य भावात् , तत्रापि सम्यगर्थपरिच्छेदः स्यात् । अथ स्वरूपविशेषकार्यो यथावस्थितार्थपरिच्छेद इति नातिप्रसङ्गः । तर्हि स स्वरूपविशेषो वक्तव्यः । किमपूर्वार्थविज्ञानत्वम् , उत निश्चितत्वम् , आहोस्विद् बाधारहितत्वम्, उतस्विद् अदुष्टकारणारब्धत्वम् , किं वा संवादित्वमिति । तत्र यद्यपूर्वार्थविज्ञानत्वं विशेषः । स न युक्तः। तैमिरिकज्ञानेऽपि तस्य भावात्॥ अथ निश्चितत्वम् । सोऽप्ययुक्तः । परोक्षज्ञानवादिनो भवतोऽभिप्रायेणासंभवात् ॥ अथ बाधारहितत्वं विशेषः । सोऽपि न युक्तः । यतो बाधाविरहस्तत्कालभावी