________________
१७
तश्वबोधविधायिनी व्याख्या । अपौरुषेयत्वस्य प्रतिपादयिष्यमाणतद्वाहकप्रमाणाविषयत्वेनासत्त्वात् । सत्त्वेऽपि भवन्नीत्या तस्यैव गुणत्वात् । तथाभूतप्रेरणाप्रभवाया बुद्धेः कथं न परतः प्रामाण्यम् । किंच। अपौरुषेयत्वे प्रेरणावचसो, गुणवत्पुरुषप्रणीतलौकिकवाक्येषु तत्त्वेन निश्चितप्रामाण्यं, गुणाश्चयपुरुषप्रणीतत्वव्यावृत्त्या तत्तत्र न स्यात् । तथा च ।
"प्रेरणाजनिता बुद्धिः प्रमाणं दोषवर्जितः ।
कारणैर्जन्यमानत्वाल्लिङ्गाप्तोक्ताक्षबुद्धिवत् " ॥ १ ॥ इति । इलाय श्लोक एवं पठितव्यः
प्रेरणाजनिता बुद्धिरप्रमा गुणवर्जितैः।
कारणैर्जन्यमानत्वादलिङ्गाप्तोक्तबुद्धिवत् ॥ १॥ अथ प्रेरणावाक्यस्यापौरुषेयत्वे पुरुषप्रणीतत्वाश्रया यथा गुणा व्यावृत्तास्तथा तदाश्रिता दोषा अपि । ततश्च तव्यावृत्तावप्रामाण्यस्यापि प्रेरणाया व्यावृत्तत्वात् स्वतः सिद्धमुत्पत्तौ प्रामाण्यम् ॥ नन्वेवं सति गुणदोषाश्रयपुरुषप्रणीतव्यावृत्तौ प्रेरणायां प्रामाण्याप्रामाण्ययोावृत्तत्वात्प्रेरणाजनिता बुद्धिः प्रामाण्याप्रामाण्यरहिता प्राप्नोति । ततश्च
प्रेरणाजनिता बुद्धिर्न प्रमाणं नचाप्रमा ।
गुणदोषविनिर्मुक्तकारणेभ्यः समुद्भवात् ॥ १ ॥ इत्येवमपि प्राक्तनः श्लोकः पठितव्यः। अतएव यथा" दोषाः सन्ति न सन्तीति पौरुषेयेषु चिन्त्यते ।
वेदे कर्तुरभावात्तु दोषाशङ्कव नास्ति नः" ॥१॥ इत्ययं श्लोक एवं पठितस्तथैवमपि पठनीयः
गुणाः सन्ति न सन्तीति पौरुषेयेषु चिन्त्यते ।
वेदे कर्तुरभावात्तु गुणाशङ्कव नास्ति नः ॥१॥ नच यत्रापि गुणाः प्रामाण्यहेतुत्वेनाशङ्कयन्ते तत्रापि गुणेभ्यो दोषाभाव