________________
सम्मतिताख्यप्रकरणस्यम्भवात् ; भवाहिरनभ्युपगमाञ्च' । तुच्छाभावस्याभ्युपगमे वा
"भावान्तरविनिर्मुक्तो भावोऽत्रानुपलम्भवत् । अभावः संमतस्तस्य हेतोः किं न समुद्भवः"॥१॥ इति वचो न शोभेत ।
तस्मात्पर्युदासवृत्त्या प्रतियोगिगुणात्मक एव दोषाभावोऽभिप्रेतः। ततश्च गुणेभ्यो दोषाभाव इति ब्रुवता गुणेभ्यो गुणा इत्युक्तं भवति । नच गुणेभ्यो गुणाः कारणानामात्मभूता उपजायन्ते इति । स्वात्मनि क्रियाविरोधात् स्वकारणेभ्यो गुणोत्पत्तिसद्भावाच्च। तदभावादप्रामाण्यद्वयासत्त्वमपि प्रामाण्यमभिधीयते। ततश्व गुणेभ्यः प्रामाण्यमुत्पद्यत इति अभ्युपगमात्परतः प्रामाण्यमुत्पद्यत इति प्राप्तम् । ततश्च स्वार्थावबोधशक्तिरूपप्रामाण्यात्मलाभे चेत्कारणापेक्षा, काऽन्या स्वकार्यप्रवृत्तिा स्वयमेव स्यात् । तेनायुक्तमुक्तम् , 'लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु' इति । घटस्य जलोद्वहनव्यापारात्पूर्व रूपान्तरेण स्वहेतोरुत्पत्तेर्युक्तं मृदादिकारणनिरपेक्षस्य स्वकार्ये प्रवृत्तिरित्यतो विसदृशमुदाहरणम् । उत्पत्त्यनन्तरमेव च विज्ञानस्य नाशोपगमात्कुतो लब्धात्मनः प्रवृत्तिः स्वयमेव ॥ तदुक्तम्:
“नहि तत्क्षणमप्यास्ते जायते वाऽप्रमाऽऽत्मकम् ।
येनार्थग्रहणे पश्चाद्व्याप्रियतेन्द्रियादिवत् ॥ १ ॥ तेन जन्मैव विषये बुद्धेापार उच्यते ।
तदेव च प्रमारूपं तद्वती करणं च धीः” ॥ २ ॥इति । तस्माजन्मव्यतिरेकेण बुद्धेापाराभावात्तत्र च ज्ञानानां सगुणेषु कारणेष्वपेक्षावचनात्कुतः स्वातन्त्र्येण प्रवृत्तिरिति किं तज्ज्ञानस्य कार्य ? यत्र लब्धात्मनः प्रवृत्तिः स्वयमेवेत्युच्यते। स्वार्थपरिच्छेदश्चेन्न। ज्ञानपर्यायत्वात् तस्यात्मानमेव करोतीत्युक्तं स्यात् । तच्चायुक्तम् । प्रमाणमेतदित्यनन्तरं निश्चयश्चेन्न । भ्रान्तिकारणसद्भावेन क्वचिदनिश्चयाद्विपर्ययदर्शनाच्च । तस्माजन्मापेक्षया गुणवच्चक्षुरादिकारणप्रभवं प्रामाण्यं परतः सिद्धमिति 'अथ चक्षुरादिज्ञानकारण-' इत्याद्ययुक्ततया स्थितम् । अपौरुषेयविधिवाक्यप्रभवायास्तु बुद्धेः स्वतः प्रामाण्योत्पत्त्यभ्युपगमो न युक्तः ।