________________
१.५.
तत्त्वबोधविधायिनी व्याख्या ।
किंचिन्निमित्तमुत्पश्यामः। कुतश्चैतदैश्वर्यं शक्तिभिः प्राप्तम्, यत इमाः खत वोदयं प्रत्यासादितमाहात्म्या न पुनस्तदाधाराभिमता भावविशेषा इति । नच तास्तेभ्यः प्राप्तव्यतिरेकाः। यतः स्वाधाराभिमतभावकारणेभ्यो भावस्योत्पत्तावपि, न तेभ्य एवोत्पत्तिमनुभवेयुः; व्यतिरेके, स्वाश्रयैस्ततोऽभवन्त्यो न सम्बन्धमाप्नुयुः; भिन्नानां कार्यकारणभावव्यतिरेकेणापरस्य सम्बन्धस्याभावादाश्रयाश्रयिसम्बन्धस्यापि जन्य - जनकभावाभावेऽतिप्रसङ्गतो निषेत्स्यमानत्वात् । धर्मत्वाच्छक्तेराश्रय इत्यप्ययुक्तम् । असति पारतन्त्र्ये, परमार्थतस्तदयोगात् । पारतन्त्र्यमपि न सतः सर्वनिराशम् । सत्त्वात् । असतोऽपि व्योमकुसुमस्येव न, तत्त्वादेव । अनिमित्ताश्चेमा न देशकालद्रव्यनियमं प्रतिपद्येरन् । तद्धि किञ्चित् क्वचिदुपलीयेत नवा यद्यत्र कथञ्चिदायत्तमनायचं वा । सर्वत्र प्रतिबन्धविवेकिन्य चेच्छक्तयो नेमाः कस्यचित्कदाचिद्विरमेयुरिति प्रतिनियतशक्तियोगिता भावानां प्रमाणप्रमिता न स्यात् । व्यतिरेकाव्यतिरेकपक्षस्तु शक्तीनां विरोधानवस्थोभयपक्षोक्तदोषादिपरिहाराद्विनाऽनुद्धोप्यः । अनुभयपक्षस्तु न युक्तः । परस्परपरिहारस्थितरूपाणामेकनिषेधस्य परविधाननान्तरीयकत्वात् । न च विहितस्य पुनस्तस्यैव निषेधः । विधिप्रतिषेधयोरेकत्र विरोधात् । ये त्वाहुः । उत्तरकालभाविनः संवादप्रत्ययान्न जन्म प्रतिपद्यते शक्तिलक्षणं प्रामाण्यमिति स्वत उच्यते, न पुनर्विज्ञानकारणान्नोपजायत इति । तेऽपि न सम्यक् प्रचक्षते।सिद्धसाध्यतादोषात् । अप्रामाण्यमपि चैवं स्वतः स्यात् ; नहि तदप्युत्पन्ने ज्ञाने विसंवादप्रत्ययादुत्तरकालभाविनः तत्रोत्पद्यत इति कस्यचि - दभ्युपगमः । यदा च गुणवत्कारणजन्यता प्रामाण्यस्य शक्तिरूपस्य प्राक्तनन्यायादवस्थिता, तदा कथमौत्सर्गिकत्वम् । तस्य दुष्टकारणप्रभवेषु मिथ्याप्रत्ययेष्वभावात् । परस्परव्यवच्छेदरूपाणामेकत्रासम्भवात् । तस्माद्गुणेभ्यो दोषाणामभावस्तदभावाद - प्रामाण्यइयासत्वेनोत्सर्गोऽनपोहित एवास्त इति वचः परिफल्गुप्रायम् । इतश्चैतद्वचोऽयुक्तम्। विपर्ययेणाप्यस्योद्घोषयितुं शक्यत्वात् । तथाहि । दोषेभ्यो गुणानामभावस्तदभावात्प्रामाण्यइयासत्त्वेनाप्रामाण्यमौत्सर्गिकमास्त इति ब्रुवतो न वक्रं वक्रीभवति । किंच । गुणेभ्यो दोषाणामभाव इति न तुच्छरूपो दोषाभावो गुणव्यापार निष्पाद्यः । तत्र व्यतिरिक्ताव्यतिरिक्तविकल्पद्वारेण कारकव्यापारस्यास