________________
सम्मतिताख्यप्रकरणस्यइत्यन्तमभ्यधायि । तदप्यसङ्गतम् । यतो यदि लोकव्यवहारसमाश्रयणेन प्रामाग्याप्रामाण्ये व्यवस्थाप्येते, तदाऽप्रामाण्यवत्प्रामाण्यमपि परतो व्यवस्थापनीयम् । तथाहि । लोको यथा मिथ्याज्ञानं दोषवच्चक्षुरादिप्रभवमभिदधाति, तथा सम्यग्ज्ञानमपि गुणवच्चक्षुरादिसमुत्थमिति तदभिप्रायादप्रामाण्यवत्प्रामाण्यमप्युत्पत्ती परतः कथं न स्यात् । तथाहि । तिमिरादिदोषावष्टब्धचक्षुष्को विशिष्टौषधोपयोगावाप्ताक्षिनर्मल्यगुणः केनचित्सुहृदा कीदृक्षे भवतो लोचने वर्त्तते इति पृष्टः सन् प्राह-प्राक् सदोषे अभूतामिदानी समासादितगुणे संजाते इति । नच नैर्मल्यं दोषाभावमेव लोको व्यपदिशतीति शक्यमभिधातुम् ; तिमिरादेरपि गुणाभावरूपत्वव्यपदेशप्राप्तेः । तथाचाप्रामाण्यमपि प्रामाण्यवत् स्वतः स्यात् । यदप्यभ्यधायि; 'नच तृतीयं कार्यमस्ति' इति । तदप्यसम्यक् ।तृतीयकार्याभावेऽपि पूर्वोक्तन्यायेन प्रामाण्यस्योत्पत्तौ परतः सिद्धत्वात् । यच्च 'अपि चार्थतथाभावप्रकाशनलक्षणं प्रामाण्यम्' इत्यादि, 'विश्वमेकं स्यादिति वचः परिप्लवेत' इतिपर्यवसानमभिहितम् । तदपि, अविदितपराभिप्रायेण । यतो न परस्यायमभ्युपगमो विज्ञानस्य चक्षुरादिसामग्रीत उत्पत्तावप्यर्थतथाभावप्रकाशनलक्षणस्य प्रामाण्यस्य नैर्मल्यादिसामग्यन्तरात्पश्चादुत्पत्तिः, किंतु गुणवच्चक्षुरादिसामग्रीत उपजायमानं विज्ञानमागृहीतप्रामाण्यखरूपमेवोपजायत इति ज्ञानवत्तव्यतिरिक्तखभावं प्रामाण्यमपि परत इति गुणवच्चक्षुरादिसामग्यपेक्षत्वादुत्पत्तौ प्रामाण्यस्यानपेक्षत्वलक्षणखभावहेतुरसिद्धोऽनपेक्षत्वखरूप इति तस्माद्यत एव गुणविकलसामग्रीलक्षणात्' इत्याद्ययुक्तमभिहितम्॥ अर्थतथात्वपरिच्छेदरूपा च शक्तिः प्रामाण्यम् ; शक्तयश्च सर्वभावानां स्वत एव भवन्ति' इत्यादि यदभिधानम् । तदप्यसमीचीनम्। एवमभिधाने अयथावस्थितार्थपरिच्छेदशक्तेरप्यप्रामाण्यरूपाया असत्याः केनचित्कर्तुमशक्तेस्तदपि स्वतः स्यात्। यदपि एतच्च नैव सत्कार्यप्रदर्शनसमाश्रयणादभिधीयते' इत्यादि, 'तदपेक्षा न विद्यते' इति पर्यन्तमभिहितम्।तदपि प्रलापमात्रम्। यतोऽनेन न्यायेनाप्रामाण्यमपि प्रामाण्यवत् स्वत एव स्यात् । तदपि हि विपरीतार्थपरिच्छेदशक्तिलक्षणं न तिमिरादिदोषसङ्गतिमत्सु लोचनादिषु अस्तीति। अपि च । ज्ञानरूपतामात्मन्यसतीमाविर्भावयन्तीन्द्रियादयो न पुनर्यथावस्थितार्थपरिच्छेदशक्तिमिति न