________________
तत्वबोधविधायिनी व्याख्या । तस्मात् स्वतः प्रामाण्यम्, अप्रामाण्यं परत इति व्यवस्थितम् । अतः सर्व. प्रमाणानां स्वतः सिद्धत्वात् , युक्तमुक्तं स्वतः सिद्ध शासनं नातः प्रकरणात्प्रामाण्येन प्रतिष्ठाप्यम् ।
इदं त्वयुक्तम् ; जिनानामिति । जिनानामसत्त्वेन शासनस्य तत्कृतत्वानुपपत्तेः । उपपत्तावपि परतः प्रामाण्यस्य निषिद्धत्वादिति ॥ ___ अत्र प्रतिविधीयते।यत्तावदुक्तम् ; अर्थतथाभावप्रकाशको ज्ञातृव्यापारः प्रमाणम् । तदयुक्तम् । पराभ्युपगतज्ञातृव्यापारस्य प्रमाणत्वेन निषेत्स्यमानत्वात्। यदभ्यधायि; तस्य यथार्थप्रकाशकत्वं प्रामाण्यं, तच्चोत्पत्तौ स्वतः। विज्ञानकारणचक्षुरादिव्यतिरिक्तगुणानपेक्षत्वात्। तत्र प्रामाण्यस्योत्पत्तिरविद्यमानस्यात्मलाभः।साचेनिर्हेतुका, देशकालस्वभावनियमो न स्यादित्यन्यत्र प्रतिपादितम्। किंच।गुणवच्चक्षुरादिसद्भावे सति यथावस्थितार्थप्रतिपत्तिदृष्टा, तदभावे न दृष्टेति तहेतुका व्यवस्थाप्यते अन्वयव्यतिरेकनिबन्धनत्वादन्यत्रापि हेतुफलभावस्य । अन्यथा दोषवच्चक्षुराद्यन्वयव्यतिरेकानुविधायिनी मिथ्याप्रतिपत्तिरपि स्वतः स्यात् । तथाऽभ्युपगमे “वस्तुत्वाद् द्विविधस्यात्र संभवो दुष्टकारणात्” इति वचो व्याहतमनुषज्येत। यदपि, 'अत्यक्षाक्षाश्रितगुणसद्भावे प्रत्यक्षाप्रवृत्तेः तत्पूर्वकानुमानस्यापि तद्ग्राहकत्वेनाव्यापारात् चक्षुरादिगतगुणानामसत्त्वात्तदन्वयव्यतिरेकानुविधायित्वं प्रामाण्यस्योत्पत्तावयुक्तम्' इत्युक्तम् । तदप्यसङ्गतम् । अप्रामाण्योत्पत्तावप्यस्य दोषस्य समानत्वात् । तथाहि । अतीन्द्रियलोचनाद्याश्रिता दोषाः किं प्रत्यक्षेण प्रतीयन्ते, उतानुमानेन । न तावत्प्रत्यक्षेण । इन्द्रियादीनामतीन्द्रियत्वेन तद्गतदोषाणामप्यतीन्द्रियत्वेन तेषु प्रत्यक्षस्याप्रवृत्तेः। नाप्यनुमानेन । अनुमानस्य गृहीतप्रतिबन्धलिङ्गप्रभवत्वाभ्युपगमात्। लिङ्गप्रतिबन्धग्राहकस्य च प्रत्यक्षस्यानुमानस्य चात्र विषयेऽसम्भवात् ;प्रमाणान्तरस्य चात्रानन्तर्भूतस्यासत्त्वेन प्रतिपादयिष्यमाणत्वात्, इत्यादि सर्वमप्रामाण्योत्पत्तिकारणभूतेषु लोचनाद्याश्रितेषु दोषेष्वपि समानमिति तेषामप्यसत्त्वात्तदन्वयव्यतिरेकानुविधानस्यासिद्धत्वादप्रामाण्यमप्युत्पत्तौ खतः स्यात्। यदपि 'अथ कार्येण यथार्थोपलब्ध्यात्मकेन तेषामधिगमः' इत्यादि, 'यतो न लोकः प्रायशो विपर्ययज्ञानादुत्पादकं कारणमात्रमनुमिनोति किंतु सम्यग्ज्ञानात्'