________________
सम्मतितकाख्यप्रकरणस्यनिवृत्तेः। नच तदपेक्षातः खतःप्रामाण्यव्याहतिरनवस्था वेत्याशङ्कनीयम्। संवादज्ञानस्याप्रामाण्याशङ्काव्यवच्छेदे एव व्यापारादपरज्ञानानपेक्षणाच्च । तथाहि ।अनुत्पन्नबाधके ज्ञाने परत्र बाध्यमानप्रत्ययसाधादप्रमाण्याशङ्का; तस्यां सत्यां तृतीयज्ञानापेक्षा; तच्चोत्पन्नं यदि प्रथमज्ञानसंवादि, तदा तेन न प्रथमज्ञानप्रामाण्यनिश्चयः क्रियते; किं तु द्वितीयज्ञानेन यत्तस्याप्रामाण्यमाशङ्कितं तदेव तेनापाक्रियते; प्रथमस्य तु खत एव प्रामाण्यमिति । एवं तृतीयेऽपि कथञ्चित्संशयोत्पत्तौ चतुर्थज्ञानापेक्षायामयमेव न्यायः ॥ तदुक्तम्
" एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः ।
प्रार्थ्यते तावतैवैकं खतः प्रामाण्यमश्नुते ॥ १॥ इति । यत्र च दुष्टं कारणं, यत्र च बाधकप्रत्ययः स एव मिथ्याप्रत्यय इत्यस्याप्ययमेव विषयः । चतुर्थज्ञानापेक्षा त्वर्थज्ञानापेक्षाऽभ्युपगमवादत उक्ता, नतु तदपेक्षाऽपि भावतो विद्यते।अथ तृतीयज्ञानं द्वितीयज्ञानसंवादि, तदा प्रथमस्याप्रामाण्यनिश्चयः। स तु तत्कृतोऽभ्युपगम्यते एव; किंतु द्वितीयस्य यदप्रामाण्यमाशङ्कितं तत्तेनापाक्रियते, न पुनस्तस्य द्वितीयप्रामाण्यनिश्चायकत्वे व्यापारः। यत्र त्वभ्यस्ते विषयेऽर्थतथात्वशङ्का नोपजायते तत्र बलादुत्पाद्यमाना शङ्का तत्कर्तुरनर्थकारिणीत्यावेदितं वार्तिककृता
" आशङ्केत हि यो मोहादजातमपि बाधकम् । ___स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत्" ॥ १॥ इति । नचैतदभिशापमात्रम् । यतोऽशङ्कनीयेऽपि विषयेऽभिशङ्गिनां सर्वत्रार्थानर्थप्राप्तिपरिहारसमर्थप्रवृत्त्यादिव्यवहारासम्भवात् न्यायप्राप्त एव क्षयः।खोप्रेक्षितनिमित्तनिबन्धनाया आशङ्कायाः सर्वत्र भावात् । प्रेरणाजनिता तु बुद्धिरपौरुषेयत्वेन दोषरहितात्प्रेरणालक्षणाच्छब्दादुपजायमाना लिङ्गाप्तोक्ताक्षबुद्धिवत्प्रमाणं सर्वत्र स्वतः ॥ तदुक्तम्
"चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः। कारणैर्जन्यमानत्वाल्लिङ्गाप्तोक्ताक्षबुद्धिवत्” ॥ १ ॥ इति ।.