________________
तत्त्वबोधविधायिनी व्याख्या ।
११ सचायुक्तः । पूर्वस्यापि भिन्नविषयस्यैकसन्तानप्रभवस्य विजातीयस्य प्रामाण्यव्यवस्थापकत्वप्रसङ्गात् । तथा किं तत्समानकालमर्थक्रियाज्ञानं पूर्वज्ञानप्रामाण्यनिश्चायकम् , आहोखिन भिन्नकालम् । यदि समानकालम् । किं साधननिर्भासिज्ञानग्राहि, उत तदग्राहीति पुनरपि विकल्पद्वयम्।यदि तद्ग्राहि। तदसत्। ज्ञानान्तरस्य चक्षुरादिज्ञानेष्वप्रतिभासनात् प्रतिनियतरूपादिविषयत्वेन चक्षुरादिज्ञानानामभ्युपगमात् । अथ तदग्राहि । न तर्हि तज्ज्ञानप्रामाण्यनिश्चायकम् । तदग्रहे तद्तधर्माणामप्यग्रहात् ॥ अथ भिन्नकालम् । तदप्ययुक्तम् । पूर्वज्ञानस्य क्षणिकत्वेन नाशादुत्तरकालभाविविज्ञानेऽप्रतिभासनात् । भासने चोत्तरविज्ञानस्यासद्विषयत्वेनाप्रामाण्यप्रसक्तितस्तद्राहकलेन न तत्प्रामाण्यनिश्चायकत्वम् । तदग्राहक तु भिन्नकालं सुतरां न तन्निश्चायकमिति न भिन्नकालमप्येकसन्ताननं भिन्नजातीयं प्रामाण्यनिश्चायकमिति न संवादापेक्षः पूर्वप्रमाणप्रामाण्यनिश्चयः । तेन ज्ञप्तावपि थे यद्भावं प्रत्यनपेक्षाः' इति प्रयोगे हेतो सिद्धिः । व्याप्तिस्तु साध्य- . विपक्षातन्नियतत्वव्यापकात्सापेक्षत्वान्निवर्त्तमानमनपेक्षत्वं तन्नियतत्वेन व्याप्यते इति प्रमाणसिद्धैव । यतश्च न पूर्वोक्तेन प्रकारेण परतः प्रामाण्यनिश्चयः सम्भवति; ततो थे सन्देहविपर्ययविषयीकृतात्मतत्त्वाः' इति प्रयोगे व्याप्त्यसिद्धिः, हेतोश्वासिद्धता। सर्वप्राणभृतां प्रामाण्ये सन्देहविपर्ययाभावात् । तथाहि । ज्ञाने समुत्पन्ने सर्वेषामयमर्थ इति निश्चयो भवति; नच प्रामाण्यस्य सन्देहे विपर्यये वा सत्येष युक्तः ॥ तदुक्तम्:
“प्रामाण्यग्रहणात्पूर्व खरूपेणैव संस्थितम् ॥
निरपेक्षं स्वकार्ये च-" इति । खार्थनिश्चयो हि प्रमाणकार्य, नच तत्र प्रमाणान्तरग्रहणं चापेक्षत इतिगम्यते। न चैतत्संशयविपर्ययविषयत्वे सम्भवतीति । अथ प्रमाणाप्रमाणयोरुत्पत्तौ तुल्यं रूपमिति न संवादविसंवादावन्तरेण तयोः प्रामाण्याप्रामाण्ययोनिश्चयः। तदसत्। अप्रमाणे तदुत्तरकालमवश्यंभाविनौ बाधककारणदोषप्रत्ययौ; तेन तत्राप्रामाण्यनिश्चयः। प्रमाणे तु तयोरभावात्कुतोऽप्रामाण्याशङ्का । अथ तत्तुल्यरूपे तयोदर्शनाचत्रापि तदाशङ्का । साऽपि न युक्ता । त्रिचतुरज्ञानापेक्षामात्रतस्तत्र तस्या