Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रूपसेन
३०॥
|| प्रभावस्तस्या अग्रे प्रकटितः. शास्त्रे निषिद्धमपि तस्या अग्रे स्वगुप्तवार्ता तेन प्रकटिता, यतः
चरित्रम् स्त्रीणां गुह्यं न वक्तव्यं । प्राणैः कंठगतैरपि ॥ नीतो हि पक्षिराजेन । पद्मरागो यथा फणी ॥५॥ | ततस्तौ भगिनीबांधवो परस्परं निविडस्नेही जातो. अथैकदा तो स्वावासोपरितनभृमिस्थितौ नगररचनां | पश्यतःस्म. इतो निकटे कुमारेणैकः सप्तभूमिक आवासो दृष्टः, तदा तेन मालिन्यै पृष्टं, हे भगिनि एष | | कस्यावासो दृश्यते ? तयोक्तं हे भ्रातरिदं कनकपुराभिधं पत्तनमस्ति, अत्र च कनकभ्रमाख्यो राजा राज्यं | करोति. तस्य च कनकमालाभिधाना पट्टराज्ञी वर्तते. तत्कक्षिसंभवा कनकवत्यभिधाना चैक
वा कनकवत्यभिधाना चैका पुत्री | ॐ विद्यते. सा कनकवती विद्याद्यनेकगुणालंकृता साक्षात्सरस्वतीवास्ति. किंच सा सर्वोत्तमस्त्रीलक्षणयुता, चतुःषष्टिकलानिपुणात्रावासे वसति. । अहं च पुष्पाणि गृहीत्वा तस्या अर्पणार्थं सर्वदा तत्र यामि, अस्यावासम्य षष्टयधिकत्रिशतमितानि |* | द्वाराणि संति, चतुरशीतिगवाक्षाश्च वर्तते, वर्षमध्ये प्रतिदिनं च सैकैकं वारकेण द्वारमुद्घाटयति, तेन | | द्वारेण च सा नगरकौतुकानि पश्यति, राज्ञ आदेशं विना च सा दृष्टिदोषभयाद् बहिर्न निस्सरति. तत् | 8 श्रुत्वा कुमारेण पृष्टं, हे भगिनि इदमात्मगृहसन्मुखं तस्य प्रासादस्य द्वारं कस्मिन् दिने उद्घटिष्यते? | |॥ ३० ॥
COLLECRECO-CONGRESCIECCHOREA

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82