Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 77
________________ ॥ ७५॥ रूपन || तदा त्वमपि सपरिवारो भद्रकपरिणामस्तेषां समीपे धर्म श्रोतुं समुपविष्टः, गुरुभिरपि तुभ्यं दयादाना- IC | दिरूपो धर्मोपदेशो दत्तः, कथितं च हे भद्र क्षेत्राद्यारंभकरणाद् बहु पापं भवति, त्वयोक्तं हे स्वामिन् | है मम बहुकुटुंबपशुगोकुलादिपरिवारोऽस्ति, तेन च क्षेत्रं विना मम निर्वाहः कथं स्यात् ? गुरुभिरुक्तं, | तथापि हे भद्र त्वं कमपि नियमं गृहाण? येन तव बहु फलं स्यात्, यतः स्तोकोऽपि नियमो येन है. पाल्यते स परभवे बहुसमृद्धियुतो भवति. तत् श्रुत्वा त्वया प्रोक्तं, हे स्वामिन् तर्हि अतःपरमहं । ४ सर्वदा जिनदर्शनं विधाय जिनमंदिरे स्वस्तिकं करिष्यामि, यथाशक्ति सुपात्रे दानं दास्यामि, महज्जीवानां | घातं न करिष्यामि, रात्रौ च भोजनं न विधास्ये. तदा गुरुभिरपि तुभ्यं ते नियमा दत्ताः, कथितं च हे | भद्र ! एतेषां नियमानां पालनेन तवात्र परत्र च सुखं भविष्यति. यतः-अक्षतान् ढोकयेद्योऽत्र । देवाग्रे, है भक्तिपूर्वकं ॥ अखंडसुखमाप्नोति । स्त्रीपुत्रधनसंयुतं ॥७१। सैव भूमिस्तदेवांभः। पश्य पात्रविशेषतः॥ है आने मधुरतायाति । कटुत्वं निंबपादपे ॥ ७२ ॥ यावंति रोमकूपाणि | पशुगात्रेषु भारत ॥ तावद्वर्ष-4 । सहस्राणि । पच्यते पशुघातकाः ॥७३ ।। चत्वारो नरकद्वाराः । प्रथमं रात्रिभोजनं ॥ परस्त्रीगमनं वै। |संधानानंतकायिके ॥ ७४ ॥ इति श्रुत्वा पापभीरुणा त्वयापि ते चत्वारो नियमाः सम्यक् पालिताः || ॥ ७५ ॥

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82