Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रूपसेन
॥ ६९ ॥
:--
| स्वनिर्वाहं करोति. अथैकदा वनमध्ये यावत्स एकं वृक्षं छिनत्ति, तावत्तत्र वसन् यक्षः प्रकटीभूय तंप्रत्युवाच हे भद्र! त्वमेतन्मे निवासस्थानं मा छेदय ? यथेष्टं च प्रार्थय ? तेनोक्तं हे यक्षाधिराज तर्हि मत्कुटुंबाजीविकायोग्यं धान्यादि त्वं समर्पय ? यक्षेणोक्तं तत्सर्वमहं तुभ्यं तत्र गृहे सर्वदापयिष्यामि ततो हृष्टः स लघुभ्राता गृहे समागत्य यावद्विलोकयति तावत्स्वकुटुंब निर्वाहयोग्यं भाजनस्थं धान्यादि दृष्ट्वा भृशं मोद. एवं च स प्रत्यहं यक्षेण दत्तं धान्यादि प्राप्य सुखेन स्वकुटुंबनिर्वाहं चकार एवं तं सुखेन कुटुंबनिर्वाहं कुर्वतं विलोक्य वृद्धभ्रातृस्त्रिया लघुस्रातृमहिलांप्रति तत्कारणं पृष्टं तयापि च देवतुष्ट्यादि तत्सकलं स्वरूपं निगदितं ततस्तया वृद्धभ्रातृपत्न्या स सर्वोऽपि वृत्तांतो निजभर्त्रे कथितः, ततो भार्यया प्रेरितः सोऽपि स्कंधे कुठारमादाय तमेव वृक्षं छेत्तुं वने ययौ तदनंतरं यावत्स तं वृक्षं छेत्तुं लग्नस्तानयक्षेण तस्य हस्तो बद्बौ तस्य शरीरादो च महती व्यथा कृता. एवं च यक्षेण स्तंभितोऽसौ तत्र महाकरुणस्वरं पूत्कारं कर्तुं लग्नः, तत्र मिलितैलोंकेस्तं तथाविधं दृष्ट्वा तद्भार्यायै तस्य स्वरूपं कथितं तदा भयभीता सापि तत्रागत्य बलिकर्मादि कृत्वा यक्षंप्रति प्रोवाच, हे यक्षाधिराज कृपां विधाय मम पतिं मुंच ? यक्ष आह भो भामिनि तव गृहे नित्यं यावन्मितं महिषोणां घृतं भवति तत्सर्वं त्वया तव देवगृहे
5656:06
चरित्रम्
॥ ६९ ॥

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82