Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रूपसेन
॥ ७१ ॥
राजन्मया तव पुत्री सज्जीकृतास्ति तत् श्रुत्वा भृशं चिंतातुरो राजा स्वमनसि चिंतयामास, अहो एव योगी त्वज्ञातकुलः कोऽपि वैदेशिको वर्तते, तेन तस्येयं कन्या कथं दीयते ? ततो राज्ञा प्रेरितो मंत्री तं योगिनंप्रत्याह हे योगिराज भवतां कुत्र वासः ? का जातिः ? किं कुलं ? को धर्मः ? अस्मिन् वयसि च योगग्रहणे किं कारणं ? योगी प्राह हे मंत्रींद्र ! जातिकुलादिप्रभैस्तव किं प्रयोजनं ? राज्ञा पूर्वं यत्कन्यादानं प्रतिश्रुतमस्ति तदेवाहमप्यर्थयामि यतः सतां वचनमन्यथा नैव भवति तत् श्रुत्वा मंत्रिणा प्रोक्तं 'योगींद्र यूयं तुत्तमाः परोपकारिणो गुणज्ञा गुणवंतश्च स्थ, यतः - न ब्रूते परदूषणं परगुणं वक्त्यल्प मप्यन्वहं । संतोषं वहते परर्द्धिषु पराबाधासु धत्ते शुचं ॥ स्वश्लाघां न करोति नोज्झति नयं नौचित्य | मुलंघय-त्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चरित्रं सतां ॥ ५८ ॥ तेन हे योगींद्र भवद्गुणैरेवास्माभिर्भतो जात्यादि सर्वमपि शुभं ज्ञातं यतः - आकारैरिंगितैर्गत्या । चेष्टया भाषणेन च ॥ नेत्रवक्त्रविकारैश्च । लक्ष्यतेंतर्गतं मनः ॥ ५९॥ तथापि हे योगींद्र कृपां विधाय राज्ञो मनःशांत्यर्थं यूयं सत्यं स्वजातिकुलादि कथयत ? तत् श्रुत्वा स योगींद्रवेषधारी राजकुमारः प्राह हे मंत्रींद्र तव मधुरवचनैः संतुष्टोऽहं मम सत्यं तं तवाग्रे कथयिष्यामि, यतः - न तथा शशी न सलिलं । न चंदनं नापि शीतलच्छाया | आहा
6
चरित्रम्
।। ७१ ।।

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82