Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रूपसेन
। ३३ ॥
৬
भाषितं ॥ आचारः कुलमाख्याति । वपुराख्याति भोजनं ॥ १८ ॥ अथ तस्य राजकुमारस्य दर्शनमात्रतस्तस्या मनः प्रफुल्लितं. ततस्तया तस्य वरासनदानादिभिर्बहुमानपुरस्सरं प्रतिपत्तिः कृता. ततस्तयोक्तं हे स्वामिन् कथमत्र भवतामागमनं जातं? का बुद्धिर्भवता विरचिता ? यतोऽत्र मदावासरक्षणार्थं मदी|यपित्रा सायुधाः सप्तशत प्राहरिका मुक्ताः संति, अतः प्रतोलीमार्गेणात्रागमनं प्राणिनां दुष्करमेवास्ति. तत् श्रुत्वा राजकुमारः प्राह, हे कामिनि अहं तु देव इव विद्याबलेन सर्वत्रापि गच्छामि. अथ तया | चिंतितं नूनमेष सर्वकलावान् दृश्यते, ततो यद्येष मे स्वामी स्यात्तदा तु मम पुण्यतरुः फलित एव. इति विचार्य तयोक्तं हे सत्पुरुष अथ त्वं मम पाणिग्रहणं कुरु ? कुमारेणोक्तं हे सुंदरि ! त्वं तु विलासवती राजकुमार्यसि, अहं च वैदेशिकोऽस्मि, तेनावयोः संयोगः कथं घटते ? किंच यदि प्रतिपन्नं निर्वाहितं | स्यात्तदैव कृतः स्नेहोऽपि सुखकरः यतः - कज्जेण विणा नेहो | अत्थविहूणाण गोरखं लोए ॥ न् निवहणं । कुणंति जे ते जए विरला ॥ २० ॥
कनकवत्योक्तं हे स्वामिन्नतः परं तु मम त्वत्पदकमलमेव शरणं, उक्तेन बहुना किंवा । किं कृतैः शपथैर्घनैः ॥ वदामि सत्यमेवैतत्त्वमेव मम मानसे ॥ २१ ॥ अथेति तस्या निश्चयं ज्ञात्वा कुमारेणापि
चरित्रम्
॥ ३३ ॥

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82