Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 396
________________ काव्यमाला। कचिद्गुणीभूतं वचित्प्रधानमित्यन्यदेतत् । साधारण्येन विशेषणसाम्यमूलायाः समासोक्तेस्तु 'अन्धेन पातभीत्या संचरता-' इत्यादिः प्रागस्माभिरुदाहृतो विषय इति न निरवकाशत्वम् । तत्र ह्यसाधारणधर्मारोपमन्तरेण साधारणविशेषणमहिम्नवाप्रकृतप्रतीतेः । एतेन 'तदेवं साधारण्येन समासोक्तविशेषणसाम्येऽप्यप्रकृतसंबन्धिधर्मकार्यसमारोपमन्तरेण तव्यवहारप्रतीतिर्न भवति' इति विमर्शिनीकृता यदुक्तं तन्निरस्तम् । तस्मादेवं संभवति विषयविभागे 'तन्वी मनोहरा-' इत्यत्र समासोक्तिवचनमहृद्यम् । यदपि “औपम्यगर्भत्वेनापि विशेषणसाम्यं संभवति । यथा__'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ।' अत्र हरिणेक्षणामात्रवृत्तेः सुवेषत्वस्य विशेषणस्य महिम्ना दन्तप्रभासदृशानि पुष्पाणीत्यादि योजनां विहाय दन्तप्रभाः पुष्पाणीवेत्याधुपमितसमासाश्रयेण कृते योजने प्रकृतार्थसिद्धौ सत्यां वृत्त्यन्तरेण त्य. ताया एव योजनायाः पुनरुज्जीवने पुष्पपल्लवालिवृन्दैरुपमेयैराक्षिप्ताया लतायाः प्रत्ययात्तव्यवहारारोपः । एवं सुवेषेत्यपहाय परीतेति कृते उपमारूपकसाधकबाधकप्रमाणाभावात्तदुभयसंशयरूपसंकराश्रयेण कृते योजने पश्चात्पूर्वोक्तरीत्या लताप्रतीतेः समासोक्तिरेव । समासभेदेनार्थभेदेऽपि शब्दैक्यमादाय श्लिष्टमूलायामिव विशेषणसाम्यं बोध्यम् । आदावते वा रूपकाश्रयेण दन्तप्रभा एव पुष्पाणीति योजने कृते तु हरिणेक्षणांशे आक्षिप्तलतातादात्म्यकेनैकदेशविवर्तिरूपकेणैवाप्रकृतार्थप्रत्ययोपपत्तेर्नार्थः समासोक्तेरत्र" इति तेनैवोक्तम् , तदपि न विचारसहम् । दन्त व्यवस्थाङ्गीकारे च । उक्तमेव सदृष्टान्तमाह-यथेति । तत्र हि अन्धेनेत्यत्र हि। धर्मकार्येति । धर्मकार्ययोः समारोपमित्यर्थः । अयं तदीय उपसंहारग्रन्थः । उपसंहरति-तस्मादिति । प्रकृतार्थेति । सुवेषवरूपेत्यर्थः । वृत्त्यन्तरेण व्यञ्जनया। योजनाया 'उपमानानि' इति समासरूपायाः । तद्यवहारेति । लताव्यवहारेत्यर्थः । उपमेति । यथासंख्यमन्वयः । पूर्वोक्तरीत्येति । वृत्त्यन्तरेणेत्याधुक्त. रीत्येत्यर्थः । नन्वेवं कथं विशेषणसाम्यमर्थभेदादत आह-समासेति । हरिणेक्षणांशे आक्षिप्तत्वेनाशब्दलादाह-एकदेशेति । अत्र उक्तपद्ये । एवमग्रेऽपि । तेनैव अलंकारसर्वस्वकारेणैव । तुल्ययुक्त्या आह-दन्तप्रभा इति । तथोकं तदा समासो..

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552