Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 513
________________ रसगङ्गाधरः। ४९७ प्रसिद्धोपमावदुपमाविशेष एव । अत एव द्वितीयतृतीयावपि भेदावुपमाविशेषावेव । उपमानोपमेययोस्तिरस्कारस्तूपमान्तराद्वैलक्षण्यं प्रयोजयेत्, न तूपमासामान्यात् । तदनुस्यूतत्वेनैव तत्प्रतीतेः । नहि द्राक्षा माधुर्यातिशयेन पार्थिवान्तराद्विलक्षणेत्यपार्थिवी भवति । अपि च यद्युपमानोपमेययोस्तिरस्कारोऽलंकारताप्रयोजकः स्यात् , पुरस्कारोऽपि तथा स्यात् । यथा ‘एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिना मित्येवं परिचिन्त्य मा स्म मनसि व्याधानुतापं कृथाः । भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः । साधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षाः खलाः ॥' अत्रौपम्यप्रदर्शनस्य नोपमानतिरस्कारः फलम् । तस्य गर्वितत्वेनाविवक्षणात् । किं तु तदनुतापनाशः। एवं च फलवैलक्षण्यमात्रेणालंकारान्तरत्वं ब्रुवता अस्याप्यलंकारान्तरत्वमभ्युपेयं स्यात् , प्रतीपषष्ठप्रभेदत्वं वा । किं च त्वदुक्तप्रतीपभेदानामपि परस्परवैलक्षण्येन पृथक्पृथगलंकारत्वं स्यात् , न प्रतीपप्रभेदत्वम् । प्रतीपस्य सकलप्रभेदसाधारणसामान्यलक्षणाभावात् । अन्यतमत्वं तु दूषणसहस्रग्रस्तत्वादलक्षणमेवेत्यसकृदुक्तम् । उपमालक्षणं तु सकलसाधारणम् । चतुर्थः प्रभेदस्तु येषां मते नाक्षेपस्तेषामस्तु नाम प्रतीपालंकारः । पञ्चमस्य तु गतिरुक्तैव प्रभेदस्य । .. . इति रसगङ्गाधरे प्रतीपप्रकरणम् । अथ प्रौढोक्तिः कसिंश्चिदर्थे किंचिद्धर्मकृतातिशयप्रतिपिपादयिषया प्रसिद्धतद्धमवता संसर्गयोद्भावनं प्रौढोक्तिः ॥ संसर्गश्च सन्नसन्वा साक्षात्परम्परया वा । तत्सुवर्णम् । अक्लप्तेतिन्यायेनाह-प्रतीपेति । लक्षणाभावादिति । चिन्त्यमिदम् । तिरस्कारफलकोपमानापकर्षबोधानुकूलव्यापारस्य प्रतीपसामान्यलक्षणवसंभवात् । स च वाच्यो व्यङ्गयो वेत्यन्यत् ॥ इति रसगङ्गाधरमर्मप्रकाशे प्रतीपप्रकरणम् ॥

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552