Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 521
________________ ५०५ रसगङ्गाधरः। यसाधारणत्वात् । विषमे तु नीलमणिरूपस्य विषयिमात्रस्य । यतो. वराटिकार्थिनो यथा महेन्द्रनीलमणेः कोटिमूल्यस्य संसर्गोऽननुरूपो न तथा भगवत्संसर्गो भवितुं प्रभवति । न चाज्ञानिनां भगवत्संसर्गोऽननुरूप एवेति वाच्यम् । एवं तर्हि तकविक्रयकर्तृत्वेनैवाज्ञानित्वलामे वराटिकालोभरूपहेतूपन्यासस्यानतिप्रयोजनकत्वापत्तेः । याहशवाञ्छितसिद्ध्यर्थ यतः क्रियते तादृशवाञ्छितसिद्धौ तु समालंकार एव । 'तद्दर्शनोपायविमर्शनार्थं मया तदालीसदनं गतेन । तत्रैव सालक्ष्यत पक्ष्मलाक्षी दाक्षायणीमर्चयितुं प्रयाता ॥' अत्र तदर्शनोपायसिद्ध्यर्थं प्रयुक्तात्तत्सखीसदनगमनयत्नात्साक्षादेव तद्दर्शनलाभः । यत्तु 'चातकस्त्रिचतुरान्पयःकणान्याचते जलघरं पिपासया । ___ सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ इति पद्यम् 'वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम्' इति प्रहर्षणद्वितीयप्रभेदं लक्षयित्वोदाहृतं कुवलयानन्दकृता । तदसत् । वाञ्छिताद'धिकार्थस्य संसिद्धिरिति लक्षणे संसिद्धिपदेन निष्पत्तिमात्रं न वक्तुं युक्तम् । सत्यामपि निष्पत्तौ वाञ्छितुस्तल्लाभकृतसंतोषानतिशये प्रहर्षणशब्दयोगार्थासंगत्या तदलंकारत्वायोगात् । किं तु लाभेन कृतः संतोषातिशयः । एवं च प्रकृते चातकस्य त्रिचतुरकणमात्रार्थितया जलदकर्तृकजलकरणकविश्वपूरणेन हर्षाधिक्याभावात्प्रहर्षणं कथंकारं पदमाधत्ताम् । वाञ्छितादधिकप्रदत्वेन दातुरुत्कर्षों भवंस्तु न वार्यते । अत एव हन्त हन्तेत्यादिनार्थान्तरन्यासेन स एव पोष्यते । लोभाद्वराटिकानामित्यस्मदीये तूदाहरणे वाञ्छितुर्वान्छितार्थादधिकवस्तुलाभेन संतोषाधिक्यातद्युक्तम् । इति रसगङ्गाधरे प्रहर्षणप्रकरणम् । गुणवम् (8)। विमर्शनं विचारः सिद्धिर्वा । वाञ्छितादिति । यत इत्यादि पदं स्थानम् । चिन्त्यमिदम् । चातकवृत्तान्तस्याप्रस्तुतत्वात्तद्यङ्ग्यदातृयाचकवृत्तान्ते पर्यवसानेन संतोषातिशयस्य दुर्वारत्वात् ॥ इति रसगङ्गाधरमर्मप्रकाशे प्रहर्षणप्रकरणम् ॥ ४३ रस०

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552