Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
रसगङ्गाधरः ।
५१३
न्तराणां निन्दा न विवक्षिता, किं तु सुखावस्थानम् । गुणिनः स्वगुणैर्दुःखितस्य वाक्येऽस्मिन्निर्गुणानां निन्दाया अवक्तव्यत्वात् प्रत्युत स्तुतेरेव वाच्यत्वात् । ‘स्खलन्ती खर्लोकात्' इति पद्ये भागीरथीस्तुतिप्रकरणपठिते यद्यस्ति भागीरथीस्तुतौ तात्पर्य तदा व्याजस्तुतिरप्यस्तु । तस्याः सावकशत्वेनैतद्बाधकत्वायोगात् ।
'रवितुरगदिग्गजेषु स्वर्णाचलजलधिधनदकोषेषु । सत्स्वेव राजपुंगव किं दातास्मीति गर्वमावहसि ॥' अत्र पर्यन्ते प्रतीयमानस्य रवितुरगादिपरिसंख्यातपदार्थातिरिक्तसकलवस्तुदानरूपस्य गुणस्य दोषत्वेनावर्णनात्, तत्त्वेन वर्ण्यमानस्य च रवितुरगाद्यदानस्यागुणत्वाद्गुणदोषयोर्भिन्नविषयत्वेनावस्थानेन लेशस्पर्शलेशरहिता व्याजस्तुतिरिति स्फुटमेव सावकाशत्वम् । अत एव लेशोऽपि न व्याजस्तुतेर्बाधिक इति प्रागुक्तजाह्नवीस्तुतौ द्वयोरपि समावेशः ।
इति रसगङ्गाधरे लेशप्रकरणम् ।
[ अथ तद्गुणः --]
स्वगुणत्यागपूर्वकं स्वसंनिहितवस्त्वन्तरसंबन्धिगुणग्रहणं तद्गुणः ॥
यथा
'नीतो नासान्तिकं तन्व्या मालत्याः कुसुमोत्करः । बन्धूकभावमानिन्ये रागेणाधरवर्तिना ॥
यथा वा ।
'अधरेण समागमाद्रदानामरुणिम्ना पिहितोऽपि शुद्धभावः । हसितेन सितेन पक्ष्मलाक्ष्याः पुनरुल्लासमवाप ज्ञातपक्षः ॥ अत्राद्ये मालतीकुसुमोत्करस्याधररागरक्ततया बन्धूकभावोपपत्तेस्तद्गुणः । द्वितीयेऽपि पूर्वार्धे स्पष्ट एव तद्गुणः । परं तूत्तरार्धगतेन प्रतिप्रसवतुल्येन हासेनापोचमानत्वाद्भङ्गुरः । यदि तु हासेनाघरसितीकरणद्वारा वकाशत्वमेवाह - रवींति । अत एव भिन्नविषयत्वादेव ॥ इति रसगङ्गाधरमर्मप्रकाशे लेशप्रकरणम् ॥

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552