Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 538
________________ ५२२ काव्यमाला। अलंकारस्यास्य द्वैविध्यमपि न प्रश्नस्योन्नीतत्वनिबद्धत्वाभ्याम् । किं तून्नीतत्वानुन्नीतत्वाभ्यां ज्ञेयम् । वस्तुतस्तु–प्रश्नोत्तरयोराकूतगर्भत्वे तावतैव चमत्कारान्नासकृदुपादानापेक्षा । आकूतविरहे त्वसकृदुपादानकृतश्चमत्कारोऽपेक्ष्यते निबद्धप्रश्ने । आक्षिप्तप्रश्ने तु प्रश्नाक्षेपकृतं चमत्कारं यदि मन्यन्ते सहृदयास्तदा सकृदुपादानेऽप्यलंकारत्वमस्तु । प्रकारान्तरेणाप्यस्य भेदाः संभवन्ति । पद्यान्तरवर्तित्वेन पद्यबहिर्वर्तित्वेन ताववैविध्यम् । तत्राद्यस्याभिन्नवाक्योगीर्णत्वभिन्नवाक्योद्गीर्णत्वाभ्यां पुनद्वैविध्यम् । पद्यान्तर्वर्तिपद्यबहिर्वर्तिनोईयोरप्युत्तरयोः सकृच्छब्दश्रुतिपर्यायत्वेन शब्दावृत्तिपर्यायत्वेनानेकेषां प्रश्नानामेकपदनिवेदितोत्तरत्वेन प्रकारान्तरैश्च बहुप्रमेदत्वम् । दिङ्मात्रेणोदाह्रियते' किं कुर्वते दरिद्राः कासारवती धरा मनोज्ञतरा । को पावनस्त्रिलोक्यां........ १. एतावानेवायं ग्रन्थः समुपलभ्यते टीकाप्येतावतो प्रन्थस्यैव प्राप्यते.

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552