Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 527
________________ रसगङ्गाधरः। ५११ ज्ञानाभावाद्वेषोऽपि तथा । वैपरीत्यं तु कारणसत्त्वादुचितमितिचेत् , मैवम् । दोषगुणयोर्गुणदोषांशमादायेष्टद्विष्टसाधनताज्ञानयोः सत्त्वात्त्वदुक्तं कारणं तार्वदव्याहतम् । उत्कटद्विष्टाननुबन्धीष्टसाधनताज्ञानस्योपायेच्छां प्रति उत्कटेष्टाननुबन्धिद्विष्टसाधनताज्ञानस्य चोपायद्वेषं प्रति कारणत्वस्य वाच्यत्वाद्वैपरीत्यमपि नोचितम् । अन्यथा सुखदुःखोभयसाधनेषु चान्द्रायणकलाभक्षणादिषु हरीतकीदधित्रपुसभक्षणादिषु चेच्छाद्वेषयोरनियम एव स्यात् । अत्र च पुरुषकालप्रवेश आवश्यकः । उत्कटतत्पुरुषीयतात्कालिकद्विष्टाननुबन्धितत्पुरुषीयतात्कालिकेच्छाविषयफलसाधनताज्ञानं तत्पुरुषीयोपायेच्छां प्रति कारणम् । एवमुत्कटतत्पुरुषीयतात्कालिकेष्टाननुबन्धितत्पुरुषीयतात्कालिकद्वेषविषयफलसाधनताज्ञानं तत्पुरुषीयोपायद्वेषं प्रति । तेन पुरुषान्तरीयं कालान्तरीयं च द्विष्टमिष्टमादाय न दोषः । इदं तु बोध्यम्फले उत्कटेच्छया उपायेऽप्युत्कटेच्छैव जायते । एवं फले उत्कटद्वेषेणोपायेऽपि द्वेष एव । एवं च सुखदुःखोभयसाधनेषु चान्द्रायणादिषु यदि खसामग्रीवशात्प्रथमं सुखे उत्कटेच्छा तदा तत्साधनेषु चान्द्रायणादिष्वपि सैव । अथ खसामग्रीवशात्प्रथमं दुःखे उत्कटद्वेषस्तदा चान्द्रायणादिषु स एव । उत्कटसामग्र्या बलवत्त्वकल्पनात् । उत्कटत्वं च प्रकृते इच्छाद्वेषगतो विषयिताविशेषः । एकसाधनजन्ये इष्टानिष्टरूपे फलद्वये एककालावच्छेदेनैकत्रोत्कटेच्छा अपरत्रोत्कटद्वेषश्च न संभवति । तथा सति चान्द्रायणादिप्वेकस्मिन्नेव समये इच्छाद्वेषयोद्धयोरप्यापत्तेः । एवं च बलवदनिष्टाननुबन्धित्वं बलवदिष्टाननुबन्धित्वं चौपायेच्छाद्वेषयोः कारणतावच्छेदकेन देयमेवेत्याहुः । अन्ये तु फलेच्छाफलसाधनताज्ञानयोईयोरुपायेच्छां प्रति, फलद्वेषफलसाधनताज्ञानयोरुपायद्वेषं प्रति च कारणत्वम् । उत्कटसामग्र्या बलवत्त्वाच्चेष्टानिष्टोभयसाधने न दोष इत्यपि वदन्ति । एवं चेष्टानिष्टोभयसाधने दोषे गुणे च गुणेन दोषेण च मि. - तथा न युक्तः । शङ्कते-वैपेति । दोषेति । यत इत्यादिः । यथासंख्यमत्र । दधियुक्तं त्रपुसं 'फूट' इति प्रसिद्धम् । 'दधित्रपुसं प्रत्यक्षो ज्वरः' इति महाभाष्योतः । अत्र चेति । उक्तकार्यकारणभावे पुरुषकालयोरित्यर्थः । प्रति कारणमित्यस्यानुषङ्गः ॥ इति रसगङ्गाधरमर्मप्रकाशे तिरस्कारप्रकरणम् ॥

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552