Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 522
________________ ५०६ काव्यमाला। अथ विषादनम्अभीष्टार्थविरुद्धलाभो विषादनम् ॥ अस्य चाभीष्टार्थलाभार्थं कारणप्रयोगो यत्र न कृतः केवलमिच्छैव कृता जातश्च विरुद्धार्थलाभः, स यत्र चेष्टार्थ प्रत्युक्तेऽपि कारणे तस्मान्न विरुद्धार्थलामः, अपि तु खकारणवशात्स च विविक्तो विषयः । यत्र त्विष्टार्थ प्रयुक्तात्कारणादेव विरुद्धार्थलाभस्तत्र तादृशकारणविरुद्धार्थयोरुत्पादकोत्पाद्यभावलक्षणसंसर्गस्याननुरूपत्वाद्विषमयिष्यमाणविरुद्धार्थलाभसत्त्वाच विपादनमिति संकीर्णतैव । एवं चास्य विषमभेदैर्गतार्थतेति नाशङ्कनीयम् । विषमरहितस्याप्येतद्विषयस्य दर्शयिष्यमाणत्वात् । यथा 'स्वखव्यापृतिमनमानसतया मत्तो निवृत्ते जने चकोटिनिराकृतार्गल इतो यास्याम्यहं पञ्जरात् । एवं कीरवरे मनोरथमयं पीयूषमाखादय त्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः ॥' अत्र हि विषमप्रभेदस्य नास्ति विषयः । इष्टार्थं कारणप्रयोगाभावात् । इष्टार्थप्रयुक्तकारणेन सह विरुद्धार्थस्योत्पाद्योत्पादकभावलक्षणसंसर्गस्याननुरूपत्वं हि तच्छरीरम् । तस्माद्विषादनमेवाप्रस्तुतप्रशंसाघटकतयावस्थितम् । 'चेलाञ्चलेनाननशीतरश्मि संवृण्वतीनां हरिदृश्वरीणाम् । गोपाङ्गनानां स्मरजातकम्पादकाण्डसंपातमियाय नीवी ॥' अत्रेष्टस्याननगोपनस्य विरुद्धोऽर्थो नीविस्खलनम् । कारणीभूतत्रपासंघातपरिपन्थित्वात् । तच्च सात्त्विककम्परूपात्खकारणादेवोत्पन्नम् , न तु गोपनानुकूलयत्नात् । नापीष्टसाधनत्वेन प्रयुक्तात्कारणादिष्टानुत्पत्तिरत्रास्ति । चेलाञ्चलावरणेनाननगोपनरूपस्येष्टस्योत्पत्तेः । अतो विषादनमेवात्र, न विषमम् । प्राग्वदाह-अथेति । अस्य चेतस्य विषय इत्यत्रान्वयः । वारणकरो गजशुण्डादण्डः । एकस्य विषादनस्य ॥ इति रसगङ्गाधरमर्मप्रकाशे विषादनप्रकरणम् ॥

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552