________________
५०६
काव्यमाला।
अथ विषादनम्अभीष्टार्थविरुद्धलाभो विषादनम् ॥
अस्य चाभीष्टार्थलाभार्थं कारणप्रयोगो यत्र न कृतः केवलमिच्छैव कृता जातश्च विरुद्धार्थलाभः, स यत्र चेष्टार्थ प्रत्युक्तेऽपि कारणे तस्मान्न विरुद्धार्थलामः, अपि तु खकारणवशात्स च विविक्तो विषयः । यत्र त्विष्टार्थ प्रयुक्तात्कारणादेव विरुद्धार्थलाभस्तत्र तादृशकारणविरुद्धार्थयोरुत्पादकोत्पाद्यभावलक्षणसंसर्गस्याननुरूपत्वाद्विषमयिष्यमाणविरुद्धार्थलाभसत्त्वाच विपादनमिति संकीर्णतैव । एवं चास्य विषमभेदैर्गतार्थतेति नाशङ्कनीयम् । विषमरहितस्याप्येतद्विषयस्य दर्शयिष्यमाणत्वात् । यथा
'स्वखव्यापृतिमनमानसतया मत्तो निवृत्ते जने
चकोटिनिराकृतार्गल इतो यास्याम्यहं पञ्जरात् । एवं कीरवरे मनोरथमयं पीयूषमाखादय
त्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः ॥' अत्र हि विषमप्रभेदस्य नास्ति विषयः । इष्टार्थं कारणप्रयोगाभावात् । इष्टार्थप्रयुक्तकारणेन सह विरुद्धार्थस्योत्पाद्योत्पादकभावलक्षणसंसर्गस्याननुरूपत्वं हि तच्छरीरम् । तस्माद्विषादनमेवाप्रस्तुतप्रशंसाघटकतयावस्थितम् ।
'चेलाञ्चलेनाननशीतरश्मि संवृण्वतीनां हरिदृश्वरीणाम् ।
गोपाङ्गनानां स्मरजातकम्पादकाण्डसंपातमियाय नीवी ॥' अत्रेष्टस्याननगोपनस्य विरुद्धोऽर्थो नीविस्खलनम् । कारणीभूतत्रपासंघातपरिपन्थित्वात् । तच्च सात्त्विककम्परूपात्खकारणादेवोत्पन्नम् , न तु गोपनानुकूलयत्नात् । नापीष्टसाधनत्वेन प्रयुक्तात्कारणादिष्टानुत्पत्तिरत्रास्ति । चेलाञ्चलावरणेनाननगोपनरूपस्येष्टस्योत्पत्तेः । अतो विषादनमेवात्र, न
विषमम् ।
प्राग्वदाह-अथेति । अस्य चेतस्य विषय इत्यत्रान्वयः । वारणकरो गजशुण्डादण्डः । एकस्य विषादनस्य ॥ इति रसगङ्गाधरमर्मप्रकाशे विषादनप्रकरणम् ॥