________________
५०५
रसगङ्गाधरः। यसाधारणत्वात् । विषमे तु नीलमणिरूपस्य विषयिमात्रस्य । यतो. वराटिकार्थिनो यथा महेन्द्रनीलमणेः कोटिमूल्यस्य संसर्गोऽननुरूपो न तथा भगवत्संसर्गो भवितुं प्रभवति । न चाज्ञानिनां भगवत्संसर्गोऽननुरूप एवेति वाच्यम् । एवं तर्हि तकविक्रयकर्तृत्वेनैवाज्ञानित्वलामे वराटिकालोभरूपहेतूपन्यासस्यानतिप्रयोजनकत्वापत्तेः । याहशवाञ्छितसिद्ध्यर्थ यतः क्रियते तादृशवाञ्छितसिद्धौ तु समालंकार एव ।
'तद्दर्शनोपायविमर्शनार्थं मया तदालीसदनं गतेन ।
तत्रैव सालक्ष्यत पक्ष्मलाक्षी दाक्षायणीमर्चयितुं प्रयाता ॥' अत्र तदर्शनोपायसिद्ध्यर्थं प्रयुक्तात्तत्सखीसदनगमनयत्नात्साक्षादेव तद्दर्शनलाभः । यत्तु
'चातकस्त्रिचतुरान्पयःकणान्याचते जलघरं पिपासया । ___ सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ इति पद्यम् 'वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम्' इति प्रहर्षणद्वितीयप्रभेदं लक्षयित्वोदाहृतं कुवलयानन्दकृता । तदसत् । वाञ्छिताद'धिकार्थस्य संसिद्धिरिति लक्षणे संसिद्धिपदेन निष्पत्तिमात्रं न वक्तुं युक्तम् । सत्यामपि निष्पत्तौ वाञ्छितुस्तल्लाभकृतसंतोषानतिशये प्रहर्षणशब्दयोगार्थासंगत्या तदलंकारत्वायोगात् । किं तु लाभेन कृतः संतोषातिशयः । एवं च प्रकृते चातकस्य त्रिचतुरकणमात्रार्थितया जलदकर्तृकजलकरणकविश्वपूरणेन हर्षाधिक्याभावात्प्रहर्षणं कथंकारं पदमाधत्ताम् । वाञ्छितादधिकप्रदत्वेन दातुरुत्कर्षों भवंस्तु न वार्यते । अत एव हन्त हन्तेत्यादिनार्थान्तरन्यासेन स एव पोष्यते । लोभाद्वराटिकानामित्यस्मदीये तूदाहरणे वाञ्छितुर्वान्छितार्थादधिकवस्तुलाभेन संतोषाधिक्यातद्युक्तम् ।
इति रसगङ्गाधरे प्रहर्षणप्रकरणम् ।
गुणवम् (8)। विमर्शनं विचारः सिद्धिर्वा । वाञ्छितादिति । यत इत्यादि पदं स्थानम् । चिन्त्यमिदम् । चातकवृत्तान्तस्याप्रस्तुतत्वात्तद्यङ्ग्यदातृयाचकवृत्तान्ते पर्यवसानेन संतोषातिशयस्य दुर्वारत्वात् ॥ इति रसगङ्गाधरमर्मप्रकाशे प्रहर्षणप्रकरणम् ॥
४३ रस०