________________
रसगङ्गाधरः ।
५०७
अत्रेदं बोध्यम् — इष्टसाधनत्वेन निश्चितादनिष्टोत्पत्तिरिति यो विषमस्य भेदः प्राक्प्रत्यपादि सोऽनेन विषादनेन प्रस्तत्वादस्यैव प्रभेदो भवि - तुमीष्टे, न तु शेषमस्येति कश्चिद्यदि ब्रूयात्स प्रष्टव्यः - न विषमस्येति यदुक्तं तत्कस्य हेतोः । विषादनेनेव विषमेणापि कार्यकारणसंसर्गाननुरूपतालक्षणेन ग्रस्तत्वात् । न चात्रैकस्यान्यापवादकत्वं युक्तम् । द्वयोरपि सावकाशत्वात् । भिन्नविषयत्वाच्च । विरुद्धलाभांशो विषादनस्य, विरुद्धलाभेष्टार्थप्रयुक्तकारणयोः संसर्गाननुरूपतांशश्च विषमस्य विषय इत्यवोचाम | तस्मात्तत्र किंचिदंशे विषमम्, किंचिदंशे विषादनमित्युभयोरपि समावेशो बोध्यः ।
इति रसगङ्गाधरे विषादनप्रकरणम् ।
अथोल्लासः—
अन्यदीयगुणदोषप्रयुक्तमन्यस्य गुणदोषयोराधानमुल्लासः ॥ तच्च गुणेन गुणस्य, दोषस्य वा, दोषेण गुणस्य, दोषस्य वेति चतुर्धा । आधानं च तद्वत्ताबुद्धिः । क्रमेणोदाहरणानि
'अलभ्यं सौरभ्यं हरति सततं यः सुमनसां
क्षणादेव प्राणानपि विरहशस्त्रक्षतहृदाम् । त्वदीयानां लीलाचलितलहरीणां व्यतिकरा
पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ॥' अत्र लहरीणां पावनत्वातिशयेन पवमानस्य पावनत्वगुणान्तरं वर्णि
तम् ।
'विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं न याभ्यामालीढा परमरमणीया तव तनुः । अयं तु न्यक्कारो जननि मनुजस्य श्रवणयोर्ययोर्नान्तर्यातस्तव लहरिलीका कलकल: ॥'
अत्र श्रीभागीरथीरमणीयत्वगुणेन तद्रूपशब्द विमुखयोर्नयनयोः श्रवणयोश्च नैष्फल्यधिक्काररूपौ दोषौ । यथा वा -
प्राग्वदाह - अथेति । व्यतिकरः संबन्धः । पवमानो वायुः । न्यक्कारो धिक्कारः ।