Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 524
________________ ५०८ काव्यमाला। 'हिंसाप्रधानः खलु यातुधानैर्यानीयतापावनतां सदैव । रामानियोगादय सापि वन्या विन्ध्यस्य धन्यास्त मुनेः सतीव ॥' भत्र दोषेण दोषः पूर्वार्धे, द्वितीयाधं तु गुणेन गुण इति विशेषः । यथा वा__.. 'भूषितानि हरेभक्तैर्दूषितानि पराङ्मुखैः ।। खकुलं नगरं देशो द्वीपं सर्वा च मेदिनी ।' अनोत्तरोत्तरव्यापकतया तथेति विशेषः । 'श्वपाकानां वातैरमितविचिकित्साविचलितै विमुक्तानामेकं किल सदनमेनःपरिषदाम् । मुदा मामुद्धत जननि घटयन्त्याः परिकरं तव श्लाघां कर्तुं कथमिव समर्थो नरपशुः ॥' अत्र वक्तृगतपापरूपदोषप्रयुक्तस्तदुद्धाः श्रीगङ्गायाः श्लाघ्यत्वं गुणः। यथा वा 'श्ववृत्तिव्यासङ्गो नियतमथ मिथ्याप्रलपनं कुतर्केष्वभ्यासः सततपरपैशुन्यमननम् । अपि श्रावंश्रावं मम तु पुनरेवंविधगुणा नृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ॥ इहापि प्राग्वदेव । किं तु व्यङ्गयः स इति विशेषः । 'काव्यलिङ्गेन गतार्थोऽयम् । नालंकारान्तरत्वभूमिमारोहति' इत्येके । 'लौकिकार्थमयत्वा-- दनलंकार एव' इत्यपरे । इति रसगङ्गाधर उल्लासप्रकरणम् । अथावज्ञातद्विपर्ययोऽवज्ञा॥ वन्या वनसमूहः । मुनेरिति । गौतमस्याहल्येवेत्यर्थः । श्वपाकाश्चण्डालाः । परिकर कटिबन्धनम् । श्ववृत्तिः सेवा । खत् खाम् । भूमिं स्थानम् ॥ इति रसगङ्गाधरमर्मप्रकाश उल्लासप्रकरणम् ॥

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552