Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 523
________________ रसगङ्गाधरः । ५०७ अत्रेदं बोध्यम् — इष्टसाधनत्वेन निश्चितादनिष्टोत्पत्तिरिति यो विषमस्य भेदः प्राक्प्रत्यपादि सोऽनेन विषादनेन प्रस्तत्वादस्यैव प्रभेदो भवि - तुमीष्टे, न तु शेषमस्येति कश्चिद्यदि ब्रूयात्स प्रष्टव्यः - न विषमस्येति यदुक्तं तत्कस्य हेतोः । विषादनेनेव विषमेणापि कार्यकारणसंसर्गाननुरूपतालक्षणेन ग्रस्तत्वात् । न चात्रैकस्यान्यापवादकत्वं युक्तम् । द्वयोरपि सावकाशत्वात् । भिन्नविषयत्वाच्च । विरुद्धलाभांशो विषादनस्य, विरुद्धलाभेष्टार्थप्रयुक्तकारणयोः संसर्गाननुरूपतांशश्च विषमस्य विषय इत्यवोचाम | तस्मात्तत्र किंचिदंशे विषमम्, किंचिदंशे विषादनमित्युभयोरपि समावेशो बोध्यः । इति रसगङ्गाधरे विषादनप्रकरणम् । अथोल्लासः— अन्यदीयगुणदोषप्रयुक्तमन्यस्य गुणदोषयोराधानमुल्लासः ॥ तच्च गुणेन गुणस्य, दोषस्य वा, दोषेण गुणस्य, दोषस्य वेति चतुर्धा । आधानं च तद्वत्ताबुद्धिः । क्रमेणोदाहरणानि 'अलभ्यं सौरभ्यं हरति सततं यः सुमनसां क्षणादेव प्राणानपि विरहशस्त्रक्षतहृदाम् । त्वदीयानां लीलाचलितलहरीणां व्यतिकरा पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ॥' अत्र लहरीणां पावनत्वातिशयेन पवमानस्य पावनत्वगुणान्तरं वर्णि तम् । 'विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं न याभ्यामालीढा परमरमणीया तव तनुः । अयं तु न्यक्कारो जननि मनुजस्य श्रवणयोर्ययोर्नान्तर्यातस्तव लहरिलीका कलकल: ॥' अत्र श्रीभागीरथीरमणीयत्वगुणेन तद्रूपशब्द विमुखयोर्नयनयोः श्रवणयोश्च नैष्फल्यधिक्काररूपौ दोषौ । यथा वा - प्राग्वदाह - अथेति । व्यतिकरः संबन्धः । पवमानो वायुः । न्यक्कारो धिक्कारः ।

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552