Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 519
________________ रसगङ्गाधरः। ५०३ . रणस्य राजकर्तृकत्यागकर्मत्वस्याभिधानं पर्यायोक्तेविषयः । दशयोरेकत्वाध्यवसानं तु पदार्थनिदर्शनाया अतिशयोक्तेर्वेत्यन्यदेतत् । एवं च पदार्थनिदर्शनोपबृंहितस्य पर्यायोक्तस्यैवात्र विषयः, न ललितस्य । किं च तदुक्तं ललितालंकारलक्षणमपि नात्र संभवति । तच्च "प्रस्तुते वर्ण्यवाक्यार्थप्रतिबिम्बस्य वर्णनम्' प्रस्तुते धर्मिणि वर्णनीयं वाक्यार्थमवर्णयित्वा कस्यचिदप्रस्तुतस्य वाक्यार्थस्य वर्णनं ललितम्" इत्यादिना ग्रन्थेन भवता विवेचितम् । इह च प्रस्तुते धर्मिणि देशविशेषे राजकर्तृकत्यागकर्मत्वरूपस्य वर्ण्यस्यार्थस्यावर्णनेऽप्यप्रस्तुतस्य वसन्तकर्तृकत्यागकर्मत्वस्याप्यवर्णना कथं संगच्छताम् । यदि पुनः 'अकारि देशः कतमस्त्वयाद्य निरस्तचन्द्रः कठिनाशयेन' इति पद्यं स्यात्तदा स्यादपि तव मनोरथः । न च तादृशवनदशाया अप्रस्तुताया देशविशेषे वर्णनमस्त्येवेति वाच्यम् । दशाशब्देन तद्दशासदृशस्य दशान्तरस्य लक्ष्यत्वेन तस्याप्रस्तुतत्वायोगात् । अन्यथा पदार्थनिदर्शनोच्छेदापत्तेः । एवम् 'रामो विजयते यस्य क्षणात्सामर्षवीक्षणात् ।। दावाग्निदग्धकान्तारलीलां लङ्कापुरी दधौ ।' इत्यादौ ललितस्यालंकारान्तरतामभ्युगच्छतामपि मते न तस्य विषयः' किं तु निदर्शनायाः । अत एव 'उदयति विततो रश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम्। वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥' इति प्राचां निदर्शनोदाहरणमपि संगच्छते । तव तु रश्मिरज्जुनियन्त्रितपार्श्वद्वयसंलग्नसूर्यचन्द्रोऽयं गिरिरित्येवं प्रकृतधारूढतया प्रकृतार्थानुपादानाल्ललितमेव स्यात् । प्रकृतव्यवहारस्य लेशतोऽप्यकीर्तने केवलं प्रकरणादिना गम्यत्वे ललितम् । अन्यथा निदर्शनेति चेत् ‘व सूर्यप्रभवः' इत्यस्मात्कथं निदर्शना तर्हि निर्वासितेति सर्वमसमञ्जसमेव । इति रसगङ्गाधरे ललितालंकारप्रकरणम् ।। संभावितमपीत्यर्थः । कथं निदर्शना तर्हि निर्वासितेति । वसन्तकर्तृकलात्कमवस्यावर्णनेऽपि तादृशवनदशारूपस्याप्रस्तुतस्यावर्णनात् । घटकतया तस्यापि वर्ण

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552