Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 512
________________ काव्यमाला। .: किं जल्पसि मुग्धतया हन्त ममानं सुवर्णवर्णमिति । । तद्यदि पतति हुताशे तदा हताशे तवाङ्गवर्ण स्यात् ।।.. ___ अत्र पूर्वार्धोपमागम्यं सुवर्णाधिक्यं तिरस्कृत्य द्वितीयाधै प्रतीपं. बालागवर्णस्याधिक्यं गमयति । हुताशपातं विना प्रतीपमपि दुर्लभम् । उपमा तु खमेऽपि न संभवतीति मुग्धत्वहताशत्वाभ्यां गम्यते । .. 'माहात्म्यस्य परोऽवधिर्निजगृहं गम्भीरतायाः पिता . . . रत्नानामहमेक एव भुवने को वापरो मादृशः । ..... इत्येवं परिचिन्त्य मा म सहसा गर्वान्धकारं गमो ..... दुग्धाब्धे भवता समो विजयते दिल्लीधरावल्लभः ॥ 'निभाल्य भूयो निजगौरिमाणं मा नाम मानं हृदये विधासीः । गृहे गृहे पश्य तवाङ्गवर्णा मुग्धे सुवर्णावलयो लुठन्ति ॥' ... उपमानकैमर्थ्यस्य तूदाहरणमाक्षेमप्रकरण एव गदितम् 'अभूदप्रत्यूहः' इत्यादि । पञ्चमो यथा 'करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः ।। कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः ॥' अत्र कथं शृणोषीत्यनेन तुलैव न संभवतीति गम्यते । अर्थान्तरन्यासोऽप्यमुमेवार्थ पुष्णाति । . तदेवं पञ्चविधं प्रतीपं प्राचामनुरोधान्निरूपितम् । वस्तुतस्तु-आद्यास्त्रयोऽप्युपमायामेवान्तर्गता भेदाः । चतुर्थः केषांचिदाक्षेपः । पञ्चमस्त्वनुक्तवैधयें व्यतिरेके । तथाहि-निष्पद्यमानं सुन्दरं वा सादृश्यमुपमा । नह्याचे प्रतीपे 'मुखमिव कमलम्' इत्यादौ सादृश्यस्यानिष्पत्तिरसौन्दर्य वास्ति येनोपमातो बहिर्भावः स्यात् । सौन्दर्यविशेषस्य त्वयाप्यभ्युपगमात् । विशेषस्य सामान्यानिवारकत्वात् । न च प्रसिद्धकमलादिप्रतियोगिकमेव सादृश्यमुपमेति राज्ञामाज्ञास्ति । न चोपमाविरुद्धवाचिनः प्रतीपशब्दस्य माहात्म्यादेव तादृशं सादृश्यमुपमेति शक्यं वक्तुम् । उपमाविशेषविरुद्धवाचकत्वेनापि तदुपपत्तेः । एवं चाचं प्रतीपं

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552