Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 511
________________ रसगङ्गांधरः । ४९५ - रादस्य वैलक्षण्यम् । नैतावता हेतूत्प्रेक्षाया बहिर्भवितुमिदमीष्टे । तदविनाभावित्वात् । किं तु तदवान्तरविशेषीभवितुम् । नहि पृथिव्यवान्तरभेदाद्धटापट विलक्षण इति पृथिव्या बहिर्भवतीत्यपि वदन्ति । इति रसगङ्गाधरे प्रत्यनीकप्रकरणम् ॥ अथ प्रतीपम् — प्रसिद्धौपम्य वैपरीत्येन वर्ण्यमानमौपम्यमेकं प्रतीपम् ॥ तद्वैपरीत्यं च तदुपमानोपमेययोरुपमेयोपमानत्वकल्पनया । न तु प्रकारान्तरेण । उपमानोपमेययोरन्यतरस्य किंचिद्गुणप्रयुक्तमद्वितीयतोत्कर्ष परिहर्तुं द्वितीय प्रदर्शनेनोल्लास्यमानं सादृश्यमपरं द्विविधम् ॥ उपमानस्य कैमर्थ्यं चतुर्थम् ॥ सादृश्य विघटनं पञ्चमम् ॥ तत्राद्ये प्रभेदे प्रसिद्धौपम्ये यदुपमेयं तस्यैवोपमानत्वादाधिक्यस्य,. यञ्च्चोपमानं तस्योपमेयत्वान्न्यूनत्वस्य च प्रत्ययः फलम् । इदमेव चौपम्यस्याविशेषेऽप्युपमालंकारादस्य वैलक्षण्ये बीजम् । औपम्यप्रतिष्ठानं च निषिध्यमानसादृश्याद्व्यतिरेकात् । नन्वौपम्यस्योपमानोपमेयसाधारण्येऽपि यदेकस्याधिक्यमपरस्य न्यूनत्वं च गम्यते तत्कस्य हेतोरिति चेत्, शृणु । उपमाने हि साधारणधर्मसंबन्धोऽनूद्योपमेये विधीयत इति तावन्निर्विवादम् । विध्यनुवादौ च साध्यत्वसिद्धत्वाभ्याम् । ते च क्रमेण न्यूनाधिक्ये उपमानोपमेययोः प्रयोजयतः । लोकेऽपि निश्चितविद्यो यथा पूज्यते तथा नानिश्चितविद्य इति स्फुटमेव । ते च साध्यत्वसिद्धत्वे वक्तृविवक्षाधीने इति नात्र दोषः । द्वितीयतृतीययोर्भेदयोस्तु फलं स्फुटमेव । चतुर्थस्य तु. निषिध्यमानवस्तुगतसकलगुणवत्त्वप्रतिपत्तिः । पञ्चमस्य प्रथमवदिति । उदाहरणम् – हेतूत्प्रेक्षासत्त्वेऽपि तद्धेतुकप्रतिपक्षीयबाधेनैतद्विषयत्वाश्चिन्त्यमिदम् ॥ इति रसगङ्गाधरमप्रकाशे प्रत्यनीकप्रकरणम् ॥ प्राग्वदाह - अथेति । ननु ते अप्युपमावदेवात्रात आह-ते च साध्यत्वेति ।

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552