________________
रसगङ्गांधरः ।
४९५
- रादस्य वैलक्षण्यम् । नैतावता हेतूत्प्रेक्षाया बहिर्भवितुमिदमीष्टे । तदविनाभावित्वात् । किं तु तदवान्तरविशेषीभवितुम् । नहि पृथिव्यवान्तरभेदाद्धटापट विलक्षण इति पृथिव्या बहिर्भवतीत्यपि वदन्ति । इति रसगङ्गाधरे प्रत्यनीकप्रकरणम् ॥
अथ प्रतीपम् —
प्रसिद्धौपम्य वैपरीत्येन वर्ण्यमानमौपम्यमेकं प्रतीपम् ॥ तद्वैपरीत्यं च तदुपमानोपमेययोरुपमेयोपमानत्वकल्पनया । न तु प्रकारान्तरेण ।
उपमानोपमेययोरन्यतरस्य किंचिद्गुणप्रयुक्तमद्वितीयतोत्कर्ष परिहर्तुं द्वितीय प्रदर्शनेनोल्लास्यमानं सादृश्यमपरं द्विविधम् ॥ उपमानस्य कैमर्थ्यं चतुर्थम् ॥
सादृश्य विघटनं पञ्चमम् ॥
तत्राद्ये प्रभेदे प्रसिद्धौपम्ये यदुपमेयं तस्यैवोपमानत्वादाधिक्यस्य,. यञ्च्चोपमानं तस्योपमेयत्वान्न्यूनत्वस्य च प्रत्ययः फलम् । इदमेव चौपम्यस्याविशेषेऽप्युपमालंकारादस्य वैलक्षण्ये बीजम् । औपम्यप्रतिष्ठानं च निषिध्यमानसादृश्याद्व्यतिरेकात् । नन्वौपम्यस्योपमानोपमेयसाधारण्येऽपि यदेकस्याधिक्यमपरस्य न्यूनत्वं च गम्यते तत्कस्य हेतोरिति चेत्, शृणु । उपमाने हि साधारणधर्मसंबन्धोऽनूद्योपमेये विधीयत इति तावन्निर्विवादम् । विध्यनुवादौ च साध्यत्वसिद्धत्वाभ्याम् । ते च क्रमेण न्यूनाधिक्ये उपमानोपमेययोः प्रयोजयतः । लोकेऽपि निश्चितविद्यो यथा पूज्यते तथा नानिश्चितविद्य इति स्फुटमेव । ते च साध्यत्वसिद्धत्वे वक्तृविवक्षाधीने इति नात्र दोषः । द्वितीयतृतीययोर्भेदयोस्तु फलं स्फुटमेव । चतुर्थस्य तु. निषिध्यमानवस्तुगतसकलगुणवत्त्वप्रतिपत्तिः । पञ्चमस्य प्रथमवदिति ।
उदाहरणम् –
हेतूत्प्रेक्षासत्त्वेऽपि तद्धेतुकप्रतिपक्षीयबाधेनैतद्विषयत्वाश्चिन्त्यमिदम् ॥ इति रसगङ्गाधरमप्रकाशे प्रत्यनीकप्रकरणम् ॥
प्राग्वदाह - अथेति । ननु ते अप्युपमावदेवात्रात आह-ते च साध्यत्वेति ।