________________
रसगङ्गाधरः।
४९७ प्रसिद्धोपमावदुपमाविशेष एव । अत एव द्वितीयतृतीयावपि भेदावुपमाविशेषावेव । उपमानोपमेययोस्तिरस्कारस्तूपमान्तराद्वैलक्षण्यं प्रयोजयेत्, न तूपमासामान्यात् । तदनुस्यूतत्वेनैव तत्प्रतीतेः । नहि द्राक्षा माधुर्यातिशयेन पार्थिवान्तराद्विलक्षणेत्यपार्थिवी भवति । अपि च यद्युपमानोपमेययोस्तिरस्कारोऽलंकारताप्रयोजकः स्यात् , पुरस्कारोऽपि तथा स्यात् । यथा
‘एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिना
मित्येवं परिचिन्त्य मा स्म मनसि व्याधानुतापं कृथाः । भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः ।
साधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षाः खलाः ॥' अत्रौपम्यप्रदर्शनस्य नोपमानतिरस्कारः फलम् । तस्य गर्वितत्वेनाविवक्षणात् । किं तु तदनुतापनाशः। एवं च फलवैलक्षण्यमात्रेणालंकारान्तरत्वं ब्रुवता अस्याप्यलंकारान्तरत्वमभ्युपेयं स्यात् , प्रतीपषष्ठप्रभेदत्वं वा । किं च त्वदुक्तप्रतीपभेदानामपि परस्परवैलक्षण्येन पृथक्पृथगलंकारत्वं स्यात् , न प्रतीपप्रभेदत्वम् । प्रतीपस्य सकलप्रभेदसाधारणसामान्यलक्षणाभावात् । अन्यतमत्वं तु दूषणसहस्रग्रस्तत्वादलक्षणमेवेत्यसकृदुक्तम् । उपमालक्षणं तु सकलसाधारणम् । चतुर्थः प्रभेदस्तु येषां मते नाक्षेपस्तेषामस्तु नाम प्रतीपालंकारः । पञ्चमस्य तु गतिरुक्तैव प्रभेदस्य ।
.. . इति रसगङ्गाधरे प्रतीपप्रकरणम् । अथ प्रौढोक्तिः
कसिंश्चिदर्थे किंचिद्धर्मकृतातिशयप्रतिपिपादयिषया प्रसिद्धतद्धमवता संसर्गयोद्भावनं प्रौढोक्तिः ॥
संसर्गश्च सन्नसन्वा साक्षात्परम्परया वा ।
तत्सुवर्णम् । अक्लप्तेतिन्यायेनाह-प्रतीपेति । लक्षणाभावादिति । चिन्त्यमिदम् । तिरस्कारफलकोपमानापकर्षबोधानुकूलव्यापारस्य प्रतीपसामान्यलक्षणवसंभवात् । स च वाच्यो व्यङ्गयो वेत्यन्यत् ॥ इति रसगङ्गाधरमर्मप्रकाशे प्रतीपप्रकरणम् ॥