________________
F
४९८
काव्यमाला |
'वल्मीकोदरसंभूतकपिकच्छूसहोदराः । हा पीडयित्वा निघ्नन्ति सज्जनान्दुष्टदृष्टयः ॥
अत्र कपिकच्छू सहोदरत्वेन मारकत्वं न प्राप्नोति, अपि तु पीडाजन`कत्वमात्रम् । कवेस्तु पीडां जनयित्वा मारयन्तीत्येवंरूपोऽतिशयो विवक्षितः । अतो वल्मीकोदरसंभूतत्वं. सर्पाधिकरणवृत्तितारूपं कपिकच्छूविशेषणं मारकतावच्छेदकत्वेन खप्रतिभया कविना कल्पितम् । यथा वा'मन्थाचलभ्रमणवेगवशंवदा ये
दुग्धाम्बुधेरुदपतन्नणवः सुधायाः । तैरेकतामुपगतैर्विविधौषधीभि
धता ससर्ज तव देव दयाहगन्तान् ॥'
अत्र दृगन्तेषु न केवलं संजीवकत्वादयोऽमृतमात्रगुणा एव कवेर्बु - बोधयिषिताः, अपि तु निखिलजनवशीकारकत्वादयोऽन्येऽपीति सुधाकणेष्वौषधीसंसर्गे विशेषणतयातिशयार्थमुपात्तः । उत्पाद्योत्पादकभावश्चात्र -न लोकसिद्धः, अपि तु कविमात्रनिबद्धः । यथा वा'त्वदङ्गणसमुद्भूता सिक्ता कुङ्कुमवारिभिः । त्वदङ्गतुलनां याति कदाचिल्लवलीलता ॥'
अत्र केवलाया लवल्या उपमानताभरसहनसामर्थ्यस्याभावात्तस्य सिद्ध नायिकासामानाधिकरण्यकुङ्कुमजलसंयोगयोरुपादानम् । अत्र च धर्मिविशेषसंसर्गादतिशयो धर्म्यन्तरगतो यद्यागूरण विषयस्त दैवायमलंकारः । वाच्यवृत्त्या तत्तत्प्रयुक्तत्वेनाभिहितश्चेत्समालंकारस्यैव विषयः ।
यथा—
' त्वत्तो जन्म हिमांशुशेखरतनुज्योत्स्नानिमग्नात्मनो दुग्धाम्भोनिधिमुग्धवीचिवलयैः साकं परिक्रीडनम् । संवासः सुरलोकसिन्धुपुलिने वादः सुधांशोः करैः कस्मान्नोज्ज्वलिमानमञ्चतितमां देव त्वदीयं यशः ॥'
प्राग्वदाह- अथेति । कपिकच्छूर्बृश्चिकः । लवली 'रायआंवळे' 'हरफारेवडी' |