________________
रसगङ्गाधरः। . . १९९ अत्र यशसो धवलतातिशयस्तत्तद्धर्मिसंबन्धप्रयुक्तत्वेन कथित इति तदंशे सम एवालंकारः अंशुकृतश्चन्द्रे चन्द्रकृतश्च भगवति भगवत्कृतो राजनीत्येवमुत्तरोत्तरमुपचीयमानः । राजगतस्त्वनुक्तत्वात्प्रौढोक्तरेव विषयः । एवं च
'शशशृङ्गधनुर्लसत्करा गगनाम्भोरुहमालिकाधराः।।
तनयैः सह भाविजन्मनां तव खेलन्ति नरेन्द्र वैरिणः ॥' इत्यादावेकस्य मिथ्यात्वसिद्ध्यर्थं मिथ्याभूतवस्त्वन्तरकल्पनं मिथ्याध्यवसित्याख्यमलंकारान्तरमिति न वक्तव्यम् । प्रौढोक्त्यैव गतार्थत्वात् । 'केशाः कलिन्दजातीरतमालस्तोममेचकाः' इत्यादौ प्राचीनकृतप्रौढोक्त्युदाहरणे यथा तमालेषु श्यामत्वातिशयाथै श्यामत्वाधिकरणीभूतकालिन्दीसंबन्ध उद्भाव्यते, तथा वैरिष्वपि मिथ्यात्वसिद्धये मिथ्यात्वाधिकरणशशशृङ्गादिसंबन्ध इत्यस्यापि सुवचत्वात् । तत्र श्यामत्वातिशयः इह तु मिथ्यात्वमात्रं न तु तस्यातिशयः सिध्यतीति वैलक्षण्यं तु न वाच्यम् । तमालस्तोमे प्रमाणान्तरेण सिद्धेऽपि श्यामत्वे कालिन्दीसंसर्गोद्भावनं पुनः श्यामत्वसाधनेनातिशयागूरकमेव स्यात् । वैरिषु तु मिथ्यात्वस्यासिद्धत्वाच्छशशृङ्गादिसंबन्धैमिथ्यात्वस्य सिद्धिरित्यार्थसमाजाधीनेयमतिशयसिद्धिलक्षण्यं न प्रयोजयति । यत्तु 'वेश्यां वशयेत्खस्रजं वहन्' इति कुवलयानन्दकृता मिथ्याध्यवसितेरुदाहरणं निर्मितं तत्तु निदर्शनयैव गतार्थम् । निदर्शनागर्भात्र मिथ्याध्यवसितिरिति तु न युक्तम् । मिथ्याध्यवसितेरेव मिथ्यात्वात् । यदि च मिथ्याध्यवसितिरेवालंकारान्तरं स्यात् , सत्याध्यवसितिरपि तथा स्यात् । यथा
'हरिश्चन्द्रेण संज्ञप्ताः प्रगीता धर्मसूनुना ।
खेलन्ति निगमोत्सङ्गे मातर्गङ्गे गुणास्तव ॥' अत्र हरिश्चन्द्रयुधिष्ठिरनिगमसंबन्धाद्गुणानां सत्यत्वं प्रतीयते । एवम्
'मध्ये सुधासमुद्रस्य सितामयगृहोदरे । पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ।।
इति प्रसिद्धा । आगूरणं व्यञ्जनम् । शङ्कते-तत्रेति । तमालेति । यत इत्यादिः । शङ्कते-निदर्शनेति । अत्र वेश्यामित्यत्र । युक्यन्तरमप्याह-यदि वेति । धर्म