Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 464
________________ ४४८ काव्यमाला। इति । तदापि न रमणीयम् । अत्र भरभुनविततेत्यादिना बाहुगतास्थिसंधिभङ्गरूपानिष्टप्राप्तेः साक्षादुपात्तत्वात्सर्वाङ्गचूर्णीभावगर्वापहाररूपायाश्च स्फुटं गम्यमानत्वात्कथमिष्टाप्राप्तिमात्रमित्युच्यते । एतेन 'शैलपतनरूपानिष्टावाप्तिस्तु भगवत्कराम्बुजस्पर्शमहिना न ज्ञाता' इति यदुक्तम् , तदप्यसारमेव । अनिष्टानामुक्तत्वात् । एवमुत्पत्तिलक्षणसंसर्गस्याननुरूपं निरूपितम् । संयोगादिलक्षणसंसर्गस्याननुरूपत्वं यथा-. ... . 'वनान्तः खेलन्ती शशकशिशुमालोक्य चकिता. भुजप्रान्तं भर्तुः श्रयति भयहर्तुः सपदि या । अहो सेयं सीता शिव शिव परीता श्रुतिचल .. करोटीकोटीभिर्वसति खलु रक्षोयुवतिभिः ॥' अत्र सतीशिखामणेभंगवत्या राघवधर्मपत्न्याः परमप्रभावयुक्तत्वाद्राक्षसीभिरनाश्यत्वेऽपि रक्षःकर्तृकनाशखरूपयोग्यतावच्छेदकमनुष्यत्वजातियोगेन खरूपस्य रक्षोदर्शनेन सौन्दर्यसौकुमार्यादीनां गुणानां च नाश्यत्वेन विरुद्धत्वात्समानाधिकरणसंयोगरूपः संसर्गोऽननुरूपः । ननु 'क्क शुक्तयः क्व वा मुक्ताः क पङ्कः क्व च पङ्कजम् । क्क मृगाः क च कस्तूरी दिग्विधातुर्विदग्धताम् ॥' इत्यादौ वस्तुकथनमात्रे विषमालंकारप्रसङ्गः । न चेष्टापत्तिः । वस्तुवृत्तस्य लोकसिद्धत्वेनालंकारत्वायोगात् । यतो बहिरसन्तः कविप्रतिभामात्रकल्पिता अर्थाः काव्येऽलंकारपदास्पदम् । नच 'यथा पद्मं तथा मुखम्' इत्यादौ सादृश्यस्य लोकसिद्धत्वात्कविप्रतिभानुत्थापितत्वेऽपि कथमलंकारत्वमिति वाच्यम् । सादृश्यरूपे सादृश्योत्थापके वा अभिन्नधर्मेऽभेदांशस्य कविप्रतिभामात्राधीनत्वात् । नहि. पद्ममुखयोः शोभारूपो धर्मो जात्यादिवद्वस्तुत एकोऽस्ति । यो हि जात्यादिरूपो वस्तुत एकस्तदुत्थापितं के सूक्तयः करणसंयोगलपः संसगादीनां गुणानां चिन्त्यम् । अत्रेति । यत इत्यादिः । बाहुगतास्थिसंधीति । तस्या धावर्थत्वात् , भगवत्करस्पर्शमहिना तस्याप्यजातखाच नेदं युक्तम् । यत्तु कुटिलीभवनं तत्रातर्कितोत्कटपर्वतधारणे तस्य संभावितत्वेन तदङ्गीकृतलात्, गर्वेण गोपानामप्रवृत्तेश्च । खिन्नोऽसीत्युक्त्या तथैव लाभाच्च । इति रसङ्गाधरमर्मप्रकाशे विषमप्रकरणम् ॥

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552