Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 508
________________ ४९२ काव्यमाला । भुजंग - ' इत्यत्र च समालंकारस्याविवक्षितत्वात् । नहि हरिचरणनखसंभूतिहरजटाजूटनिवासपतितनिस्तारणव्यासङ्गानां परस्परं योगो योग्य इति कवेरभिप्रेतम् । किं तु भगवत्या भागीरथ्या उत्कर्षं जनयितुं त्रयोऽपि जागरूका इति । नापि मलयानिलरसालद्रुमकोकिलकूजितानाम् । किं तु त्रयोऽपि बालायाः प्राणनाशार्थं बद्धपरिकरा इति । अत एव हन्तेति खेद उपपद्यते । समालंकारस्याभिप्रेतत्वे तु त्रयाणां योगस्य युक्तत्वात्खेदोऽनुपपन्न एव स्यात् । अथ बालाया मारकत्रितययोगोऽननुरूप इति विषमाभिप्रायेण खेदोपपत्तिरिति चेत्, एवमपि त्रयाणां यो.. गांशे समालंकारस्यात्यन्तमप्रतीतेर्विषमस्य च बाह्यबालांशमादाय प्रतिष्ठानात्समुच्चयस्यासंकीर्णतैव । एवं 'जीवितं मृत्युना लीढम्' इत्यादौ जीवि - तादे रमणीयस्य मृत्य्वालीढत्वादिकमयुक्तमिति कवेरिह विवक्षितम् । रमणीयानामचिरस्थायित्वस्योत्सर्गतः सिद्धेस्तस्य च खाभिलषिताननुगुणत्वाच्छल्यत्वप्रयोजकत्वम् । अतस्तृतीयप्रभेदस्यापि न विषमसंकीर्णत्वेनान्यथासिद्धिः । एतेन 'सद्योगासद्योगसदसद्योगैर्न समुच्चयः प्रभेदवान् । समविषमसंकरेणैवान्यथासिद्धेः' इति रत्नाकरोक्तमपास्तम् । इति रसगङ्गाधरे समुच्चयप्रकरणम् । अथ समाधिः -- कार्यस्याकस्मिक कारणान्तर समवधानाहित एककारणजन्यस्य सौर्य समाधिः ॥ तच्च कार्यस्यानायासेन सिद्ध्या साङ्गसिद्ध्या च । पूर्वापेक्षया विशेष - स्तूक्त एव । उदाहरणम् 'आयातैव निशा मनो मृगदृशामुन्निद्रमातन्वती मानो मे कथमेष संप्रति निरातङ्कं हृदि स्थास्यति । ऊहापोहमिमं सरोजनयना यावद्विधत्तेतरां तावत्कामनृपातपत्रसुषमं बिम्बं बभासे विधोः ॥' अत्र रात्रिसंनिधानादपि सिध्यतो मानविनाशस्य चन्द्रोदयादनायासेन सिद्धिः । यथा वा

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552