________________
४९२
काव्यमाला ।
भुजंग - ' इत्यत्र च समालंकारस्याविवक्षितत्वात् । नहि हरिचरणनखसंभूतिहरजटाजूटनिवासपतितनिस्तारणव्यासङ्गानां परस्परं योगो योग्य इति कवेरभिप्रेतम् । किं तु भगवत्या भागीरथ्या उत्कर्षं जनयितुं त्रयोऽपि जागरूका इति । नापि मलयानिलरसालद्रुमकोकिलकूजितानाम् । किं तु त्रयोऽपि बालायाः प्राणनाशार्थं बद्धपरिकरा इति । अत एव हन्तेति खेद उपपद्यते । समालंकारस्याभिप्रेतत्वे तु त्रयाणां योगस्य युक्तत्वात्खेदोऽनुपपन्न एव स्यात् । अथ बालाया मारकत्रितययोगोऽननुरूप इति विषमाभिप्रायेण खेदोपपत्तिरिति चेत्, एवमपि त्रयाणां यो.. गांशे समालंकारस्यात्यन्तमप्रतीतेर्विषमस्य च बाह्यबालांशमादाय प्रतिष्ठानात्समुच्चयस्यासंकीर्णतैव । एवं 'जीवितं मृत्युना लीढम्' इत्यादौ जीवि - तादे रमणीयस्य मृत्य्वालीढत्वादिकमयुक्तमिति कवेरिह विवक्षितम् । रमणीयानामचिरस्थायित्वस्योत्सर्गतः सिद्धेस्तस्य च खाभिलषिताननुगुणत्वाच्छल्यत्वप्रयोजकत्वम् । अतस्तृतीयप्रभेदस्यापि न विषमसंकीर्णत्वेनान्यथासिद्धिः । एतेन 'सद्योगासद्योगसदसद्योगैर्न समुच्चयः प्रभेदवान् । समविषमसंकरेणैवान्यथासिद्धेः' इति रत्नाकरोक्तमपास्तम् ।
इति रसगङ्गाधरे समुच्चयप्रकरणम् ।
अथ समाधिः --
कार्यस्याकस्मिक कारणान्तर समवधानाहित
एककारणजन्यस्य सौर्य समाधिः ॥
तच्च कार्यस्यानायासेन सिद्ध्या साङ्गसिद्ध्या च । पूर्वापेक्षया विशेष -
स्तूक्त एव । उदाहरणम्
'आयातैव निशा मनो मृगदृशामुन्निद्रमातन्वती
मानो मे कथमेष संप्रति निरातङ्कं हृदि स्थास्यति । ऊहापोहमिमं सरोजनयना यावद्विधत्तेतरां
तावत्कामनृपातपत्रसुषमं बिम्बं बभासे विधोः ॥'
अत्र रात्रिसंनिधानादपि सिध्यतो मानविनाशस्य चन्द्रोदयादनायासेन सिद्धिः । यथा वा