SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ४९२ काव्यमाला । भुजंग - ' इत्यत्र च समालंकारस्याविवक्षितत्वात् । नहि हरिचरणनखसंभूतिहरजटाजूटनिवासपतितनिस्तारणव्यासङ्गानां परस्परं योगो योग्य इति कवेरभिप्रेतम् । किं तु भगवत्या भागीरथ्या उत्कर्षं जनयितुं त्रयोऽपि जागरूका इति । नापि मलयानिलरसालद्रुमकोकिलकूजितानाम् । किं तु त्रयोऽपि बालायाः प्राणनाशार्थं बद्धपरिकरा इति । अत एव हन्तेति खेद उपपद्यते । समालंकारस्याभिप्रेतत्वे तु त्रयाणां योगस्य युक्तत्वात्खेदोऽनुपपन्न एव स्यात् । अथ बालाया मारकत्रितययोगोऽननुरूप इति विषमाभिप्रायेण खेदोपपत्तिरिति चेत्, एवमपि त्रयाणां यो.. गांशे समालंकारस्यात्यन्तमप्रतीतेर्विषमस्य च बाह्यबालांशमादाय प्रतिष्ठानात्समुच्चयस्यासंकीर्णतैव । एवं 'जीवितं मृत्युना लीढम्' इत्यादौ जीवि - तादे रमणीयस्य मृत्य्वालीढत्वादिकमयुक्तमिति कवेरिह विवक्षितम् । रमणीयानामचिरस्थायित्वस्योत्सर्गतः सिद्धेस्तस्य च खाभिलषिताननुगुणत्वाच्छल्यत्वप्रयोजकत्वम् । अतस्तृतीयप्रभेदस्यापि न विषमसंकीर्णत्वेनान्यथासिद्धिः । एतेन 'सद्योगासद्योगसदसद्योगैर्न समुच्चयः प्रभेदवान् । समविषमसंकरेणैवान्यथासिद्धेः' इति रत्नाकरोक्तमपास्तम् । इति रसगङ्गाधरे समुच्चयप्रकरणम् । अथ समाधिः -- कार्यस्याकस्मिक कारणान्तर समवधानाहित एककारणजन्यस्य सौर्य समाधिः ॥ तच्च कार्यस्यानायासेन सिद्ध्या साङ्गसिद्ध्या च । पूर्वापेक्षया विशेष - स्तूक्त एव । उदाहरणम् 'आयातैव निशा मनो मृगदृशामुन्निद्रमातन्वती मानो मे कथमेष संप्रति निरातङ्कं हृदि स्थास्यति । ऊहापोहमिमं सरोजनयना यावद्विधत्तेतरां तावत्कामनृपातपत्रसुषमं बिम्बं बभासे विधोः ॥' अत्र रात्रिसंनिधानादपि सिध्यतो मानविनाशस्य चन्द्रोदयादनायासेन सिद्धिः । यथा वा
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy