________________
रसगङ्गाधरः। 'समुत्पत्तिः पद्मारमणपदपद्मामलनखा· निवासः कंदर्पप्रतिभटजटाजूटभवने । अथायं व्यासङ्गः पतितजननिस्तारणविधे- .
न कस्मादुत्कर्षस्तव जननि जागर्ति जगतः ॥' अत्र त्रिष्वेकेनाप्युत्कर्षजननसंभवे त्रयोऽप्युत्कर्षजननार्थ स्पर्धयेवापतन्तो रमणीयाः।
'पाटीरद्रुभुजंगपुंगवमुखोद्भूता वपुस्तापिनो ___ वाता वान्ति दहन्ति लोचनममी ताम्रा रसालद्रुमाः । श्रोत्रे हन्त किरन्ति कूजितमिमे हालाहलं कोकिला
बाला बालमृणालकोमलतनुः प्राणान्कथं रक्षतु ॥' अत्रापि त्रयोऽपि जीवनाशार्थमापतन्तोऽरमणीयाः।
'जीवितं मृत्युनालीढं संपदः श्वासविभ्रमाः ।
रामाः क्षणप्रभारामाः शल्यान्येतानि देहिनाम् ॥' अत्र जीवितादयः खाभाव्याद्रमणीया इति निःसारयितुमशक्याः, विशेषणमाहात्म्याच्चारमणीया इति दुःखजनकाश्च, अत एव शल्यतुल्याः । रमणीयारमणीयशब्दे कर्मधारय आश्रीयते, न द्वन्द्वः । सहचरभिन्नत्वदोषापत्तेः । एवमरमणीयरमणीयानामप्येककार्यजननार्थमापततां समुच्चयः संभवति ।
'शरीरं ज्ञानजननं रोगो विष्णुस्मृतिप्रदः ।
विपद्वैराग्यजननी त्रयं सुखकरं सताम् ॥' शरीरादयो हि खाभाव्यादरमणीया अपि भेदकमाहात्म्याद्रमणीयाः । न च रमणीयांनां समुच्चये अरमणीयानां च समालंकारेण, रमणीयारमणीयानां च विषमालंकारेण च संकीर्णत्वान्नैते प्रभेदा युक्ताः समुच्चयस्य । संकरस्य प्रभेदताप्रयोजकत्वविरहात् । अन्यथा सर्वेषामलंकाराणामनन्तभेदत्वापत्तेरिति वाच्यम् । “समुत्पत्तिः पद्मारमण-' इत्यत्र, 'पाटीरदु
भटः शत्रुः शिवः । पाटीरद्रुश्चन्दनवृक्षः । हालाहलरूपं कूजितम् । मेदकं विशेषणम् । समुच्चये इत्यस्याग्रेऽप्यनुषङ्गः ॥ इति रसगङ्गाधरमर्मप्रकाशे समुच्चयप्रकरणम् ॥