Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 504
________________ ટટ काव्यमाला । 'प्राणानर्पय सीतां वा गृध्रांस्तर्पय वा द्विजान् । मं भजख रामं वा यथेच्छसि तथाचर ॥' अत्रार्पणतर्पण भननेषु मानरक्षणप्रमाणेन यथाक्रमं कर्मतया प्राणगृप्रयमानां जीवनरक्षणप्रमाणेन सीताद्विजरामाणां प्राप्तानां यौगपद्यासंभवात्पर्यायेण प्राप्तिः । कर्मणोः क्रियाफलेनैव समानधर्मेणैौपम्यम् । नन्वत्र यथार्पितर्ण्यादिधात्वर्थफलरूपधर्मैक्यात्कर्मणोरौपम्यं गम्यते, तथा 'जीवनं मरणं वा' इत्यादौ सत्तारूपधर्मैक्याज्जीवनमरणयोः कर्त्रीरपि तद्गन्तुं युज्यत इति चेत्, युज्यते, न तु गम्यते । अथ तत्कुतो हेतोः, कवितात्पर्यविरहादिति गृहाण । नात्र मरणं जीवनं च समानमिति कवेरभिप्रेतम् । किं तु 'विषं भुङ्क्ष्व, मा चास्य गृहे भुइथाः' इतिवत् धर्माद्धेतोर्मरणमपि ज्यायः, न तु धर्मत्याग इति निषिद्धगतद्वेषाधिक्यम् । तदर्थं च मरणस्योपात्तत्वादविवक्षिताधिकरणतया औपम्यस्यानिष्पत्तिरेव क्वचिलुप्तं समानधर्ममादायाप्यौपम्यस्य गम्यत्वेऽयमलंकारः । यथा भगवद्गीतासु 'हतो वा प्राप्स्यसि खर्गं जित्वा वा भोक्ष्यसे महीम् ' अत्र महीभो - गखर्गप्रायोरुत्तमत्वेनौपम्यं विवक्षितम् । तथा च धात्वर्थयोरयं विकल्प इत्यके । आख्यातार्थयोरित्यपरे । सर्वथैव न महीस्वर्गयोरिति स्थितम् । तयोः कारकत्वेनैव क्रियान्वयं विना विकल्पासंगतेः । न च धात्वर्थयोरेकस्य कर्तृरूपसाधारणधर्मस्योक्तत्वात्कथं लुप्ततेति वाच्यम् । कर्तृरूपसाधारणधर्ममादायौपम्यस्यात्र सुन्दरस्यानिष्पत्तेः । अन्यथा 'हतो वा नरकं गन्ता जित्वा वा भोक्ष्यसे महीम्' इत्यत्राप्यौपम्यप्रत्ययापत्तेः । यत्तु - “भक्तिप्रहविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीतेहितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥' अत्र विकल्पः । उत्तमत्वाच्च तुल्यप्रमाणश्लिष्टत्वम्" इत्यलंकारसर्वस्वकृतोक्तम् । तच्चिन्त्यम् । भवार्तिशमने तनुनेत्रद्वन्द्वयोर्द्वयोरपि युगपत्कर्तृत्वे विरोधाभावाद्विकल्पानुत्थानात् । 'विरोधे विकल्पः' इति हि

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552