Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 505
________________ रसगङ्गाधरः। तेनैवोक्तम् । न च तनुमध्ये नेत्रयोः प्रविष्टत्वात्पृथगभिधानानौचित्येऽपि यत्पृथगभिधानं तद्वक्तुस्तनुनेत्रद्वन्द्वयोर्विरोधमभिप्रेतं गमयतीति वाच्यम् । वास्तवस्यैव विरोधस्य विकल्पोत्थापकत्वेन वैवक्षिकस्याप्रयोजकत्वात् , विकल्पस्यात्रासुन्दरत्वाच । वस्तुतस्तु 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुमिव' इत्यादाविवात्रापि श्लेषमूलोपमैवालंकारः । तनुर्वेति तनुरिवेत्यर्थः । 'का स्याद्विकल्पोपमयोः' इति वाशब्दस्येवार्थकत्वाभिधानात् । न च लिङ्गवचनभेद उपमायां दोष इति वाच्यम् । साधारणधर्मस्योपमानसामानाधिकरण्ये उपमेयसामानाधिकरण्ये च यत्र वैरूप्यं तत्रैव .लिङ्गवचनभेदस्य दोषताया अभ्युपगतेः । यथा-'हंसीव धवलश्चन्द्रः सरांसीवामलं नभः' । अत्र हंसी धवला, चन्द्रो धबलः, सरांस्यमलानि, नभो ह्यमलमिति साधारणधर्मस्योपमाने उपमेये च द्वैविध्येनैव प्रतीतेरुपमायाः सम्यगनिष्पत्तेः । नन्वेवं सति 'सरांसीव नभः' इत्यादौ लुप्तोपमायां कथं वचनभेदो दोष इति चेत् , तत्रापि प्रतीयमानसाधारणधर्मस्य वैरूप्यादेवेत्यभ्युपगमात् । न च प्रतीयमानस्य धर्मस्य खशब्दानालिङ्गिततया सुतरां लिङ्गानालिङ्गनेन नास्ति वैरूप्यमिति शक्यम् । शब्दालिङ्गितस्यैवार्थस्य प्रतीतेरिष्टेः । यदाहुः-'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाहते' इति । यद्वा श्रुतार्थापत्तावभ्युपगम्यमानायां शब्द एव कल्प्यते, अर्थस्तु तेनाभिधीयत इत्यस्ति वैरूप्यम् । एवं स्थिते राजते भासते इत्यादि तिङन्तप्रतिपाद्ये साधारणधर्मे यथा लिङ्गवचनभेदो न दोषस्तथानापीति । अत एव 'यस्मिन्नतिसरसो जनो जनपदाश्च' इति तुल्ययोगितापि संगच्छते । अन्यथा उपमागर्भत्वात्तस्या उपमाया दुष्टत्वे दुष्टतापत्तेः । श्लिष्टे धर्मलिङ्गसंख्याभेदादि नैव दूषणमिति प्रतिप्रसवाच्चेति दिक् । इति रसगङ्गाधरे विकल्पप्रकरणम् । अथ समुच्चयःयुगपत्पदार्थानामन्वयः समुच्चयः॥ द्विषयो मानोऽहंकारः । तत् औपम्यम् । तत् अगमनम् । लुप्तोपेति । धर्मेत्यादिः । दिगर्थोऽन्यतोऽवसेयः ॥ इति रसगङ्गाधरमर्मप्रकाशे विकल्पप्रकरणम् ॥

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552