________________
रसगङ्गाधरः। तेनैवोक्तम् । न च तनुमध्ये नेत्रयोः प्रविष्टत्वात्पृथगभिधानानौचित्येऽपि यत्पृथगभिधानं तद्वक्तुस्तनुनेत्रद्वन्द्वयोर्विरोधमभिप्रेतं गमयतीति वाच्यम् । वास्तवस्यैव विरोधस्य विकल्पोत्थापकत्वेन वैवक्षिकस्याप्रयोजकत्वात् , विकल्पस्यात्रासुन्दरत्वाच । वस्तुतस्तु 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुमिव' इत्यादाविवात्रापि श्लेषमूलोपमैवालंकारः । तनुर्वेति तनुरिवेत्यर्थः । 'का स्याद्विकल्पोपमयोः' इति वाशब्दस्येवार्थकत्वाभिधानात् । न च लिङ्गवचनभेद उपमायां दोष इति वाच्यम् । साधारणधर्मस्योपमानसामानाधिकरण्ये उपमेयसामानाधिकरण्ये च यत्र वैरूप्यं तत्रैव .लिङ्गवचनभेदस्य दोषताया अभ्युपगतेः । यथा-'हंसीव धवलश्चन्द्रः सरांसीवामलं नभः' । अत्र हंसी धवला, चन्द्रो धबलः, सरांस्यमलानि, नभो ह्यमलमिति साधारणधर्मस्योपमाने उपमेये च द्वैविध्येनैव प्रतीतेरुपमायाः सम्यगनिष्पत्तेः । नन्वेवं सति 'सरांसीव नभः' इत्यादौ लुप्तोपमायां कथं वचनभेदो दोष इति चेत् , तत्रापि प्रतीयमानसाधारणधर्मस्य वैरूप्यादेवेत्यभ्युपगमात् । न च प्रतीयमानस्य धर्मस्य खशब्दानालिङ्गिततया सुतरां लिङ्गानालिङ्गनेन नास्ति वैरूप्यमिति शक्यम् । शब्दालिङ्गितस्यैवार्थस्य प्रतीतेरिष्टेः । यदाहुः-'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाहते' इति । यद्वा श्रुतार्थापत्तावभ्युपगम्यमानायां शब्द एव कल्प्यते, अर्थस्तु तेनाभिधीयत इत्यस्ति वैरूप्यम् । एवं स्थिते राजते भासते इत्यादि तिङन्तप्रतिपाद्ये साधारणधर्मे यथा लिङ्गवचनभेदो न दोषस्तथानापीति । अत एव 'यस्मिन्नतिसरसो जनो जनपदाश्च' इति तुल्ययोगितापि संगच्छते । अन्यथा उपमागर्भत्वात्तस्या उपमाया दुष्टत्वे दुष्टतापत्तेः । श्लिष्टे धर्मलिङ्गसंख्याभेदादि नैव दूषणमिति प्रतिप्रसवाच्चेति दिक् ।
इति रसगङ्गाधरे विकल्पप्रकरणम् । अथ समुच्चयःयुगपत्पदार्थानामन्वयः समुच्चयः॥
द्विषयो मानोऽहंकारः । तत् औपम्यम् । तत् अगमनम् । लुप्तोपेति । धर्मेत्यादिः । दिगर्थोऽन्यतोऽवसेयः ॥ इति रसगङ्गाधरमर्मप्रकाशे विकल्पप्रकरणम् ॥